SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२० चरक-संहिता। [प्रमेहनिदानम् दश श्लेष्मकृता यस्मात् प्रमेहाः षट् च पित्तजाः । यथा च वायुश्चतुरः प्रमेहान् कुरुते बली ॥ साध्यासाध्यविशेषाश्च पूर्वरूपाण्युपद्रवाः । प्रमेहाणां निदानेऽस्मिन् क्रियासूत्रञ्च भाषितम् ॥ १५ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने प्रमेहनिदानं नाम चतुर्थोऽध्यायः ॥ ४ ॥ हेतुर्निदानदोपदृष्यविशेषेभ्यो विकाराणां विघातभावाभावभावप्रतिविशेषाणां हेतुर्यदा होते इत्यादिना। तत्रेम इत्यादिना प्रमेहाणां कारणम् । स प्रकुपित इत्यादिना दोषधातुसमायोगः सम्प्राप्तिविधिरूपा। तत्र येन येनेत्यादिना दश श्लेष्मकृता प्रमेहा यस्माद्धेतोभवन्ति तत्कारणम् । तत्र श्लोका इत्यादिना प्रमेहाणां दशानां विविधरूपम् । साध्यवञ्च कफप्रमेहाणां स्थैय्यमित्यादिना। ततस्तु पित्तमेहानाम् उष्णाम्लेत्यादिकारणम् । तत् प्रकुपितमित्यादिना दोष. धातुसमायोगः। तेषामित्यादिना यस्मात् षट् पित्तजाः प्रमेहास्तत्कारणम् । ते सव्वं एवेत्यादिना याप्यासाध्यखम् । तत्र श्लोका इत्यादिना षण्णां पित्तप्रमेहाणां विविधं रूपम्। ततः कषायेत्यादिना वातप्रमेहाणां कारणम् । स प्रकुपित इत्यादिना वातप्रमेहाणां दोपधातुसमायोगः। इमांश्चेत्यादिना वातप्रमेहाणां साध्ययाप्यखवचनम् । तेषामित्यादिना यथा वायुश्चतुरो मेहान् कुरुते तत्प्रकरणम् । तत्र श्लोका इत्यादिना वातप्रमेहाणां विविधं रूपम् । त्रयस्वित्यादिना सव्वंप्रमेहाणां पूवरूपाणि। उपद्रवास्वित्यादिना सव्वे प्रमेहाणामुपद्रवास्तत्र साध्यानित्यादिना क्रियामूत्रञ्च । इति सर्व प्रमेहाणां निदानेऽस्मिन्नध्याये भापितमात्रयणेति शेषः॥१५॥ अध्यायं समापयति अग्नीत्यादि । स्पष्टम् ॥ इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरो निदानस्थान जल्पे द्वितीयस्कन्धे प्रमेहनिदानाध्यायजल्पश्चतुर्थी शाखा ॥४॥ चक्रपाणिः-संग्रहे व्याधिविशेषाणामिति “इह खलु” इत्यादि ग्रन्थं गृह्णाति ; साध्यासाध्यविशेषा इत्यत्रासाध्यविशेषत्वेन पित्तजानां याप्यानां ग्रहणम् ॥ १५ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थान व्याख्यायां प्रमेहनिदानं नाम चतुर्थोऽध्यायः ॥ ४ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy