________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः निदानस्थानम्।
१३१६ तत्र साध्यान प्रमेहान संशोधनोपशमनैर्यथाहमुपपादयन् चिकित्सेदिति ॥ १३ ॥
___ भवन्ति चात्र। गृध्नुमभ्यवहार्येषु स्नानचंक्रमणद्विषम् । प्रमेहः क्षिप्रमभ्येति नीड़द्र ममिवाण्डजः॥ मन्दोत्साहमतिस्थूलमतिस्निग्धं महाशनम् । मृत्युः प्रमेहरूपेण क्षिप्रमादाय गच्छति ॥ यस्त्वाहारं शरीरस्य धातुसाम्यकरं नरः । सेवते विविधाश्चान्याश्चेष्टाः स सुखमश्नुते ॥ १४ ॥
तत्र श्लोकाः। हेतुर्व्याधिविशेषाणां प्रमेहाणाञ्च कारणम् ।
दोषधातुसमायोगो रूपं विविधमेव च ॥ प्रमेहीयखभेदेन उपद्रवा उक्तास्तद् यथा--मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्रसेकच्छदिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः। दृषणयोरवदरणं वस्तिभेदो मेढ़तोदो हदि शुलमम्लीकाज्वरातिसारारोचका वमथुः परिधूमायनं दाहो मूर्छा पिपासा निद्रानाशः पाण्डुरोगः पीतविण्यत्रनेत्रवञ्चेति पैत्तिकानाम् । हृदग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीपतञ्चेति वातजानामिति ॥१२॥
गङ्गाधरः-उपशयज्ञानाथं चिकित्सासूत्राण्याह-तत्रेत्यादि ॥१३॥ गङ्गाधरः-अथ संग्रहेण प्रमेहकारणमाह-भवन्तीत्यादि । गृनु लोभवन्तम् अण्ड नः पक्षी। मन्दोत्साहादीन्यपि प्रमेहस्यासाध्यत्वेन भावि कारणानि न ततपन्ने प्रमेहे मन्दोत्साहादीनि असाध्यवलिङ्गानि। सवेत्र व्याध्यनुतपादेऽव्यभिचारिकारणान्याह-यस्वित्यादि । सुगमम् ॥ १४ ॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोका इत्यादि । व्याधिविशेषाणां भवति प्रायः, तमाह-गृध्नुमित्यादि।-गृध्नु लुब्धम् ; नीद्रुमः पक्षिणां वासवृक्षः ; मृत्युः प्रमेहरूपेणेति मन्दोत्साहादियुक्त प्रमेहो जातोऽसाध्यो भवतीति दर्शयति। विविधाश्चान्याश्चेशा इति धातुसाम्यकरा इत्यर्थः ।। १०-१४॥
For Private and Personal Use Only