________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१८ चरक-संहिता।
प्रमेहनिदानम् ___ इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति । एवं दोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति ॥१०॥
यस्तु खलु दोषाः प्रकुपिताः प्रमेहानभिनिवर्तयिष्यन्त इमानि पूर्वरूपाणि दर्शयन्ति ; तद् यथा-जटिलीभावं केशेषु, माधुर्यमास्यस्य, करपादयोः सुप्ततादाहो, मुखतालुकण्ठशोषं, पिपासाम्, आलस्यं, मलञ्च काये, कायच्छिद्रषु चोपदेहं, परिदाहं सुप्तताञ्चाङ्गषु, षटपदपिपीलिकाभिश्च शरीरमूत्राभिसरणं, मूत्रे च मूत्रदोषान् वित्रञ्च शरीरगन्धं, निद्रां तन्द्राश्च सर्वकालमिति ॥ ११॥
उपद्रवास्तु खलु प्रमेहिणां तृष्णाज्वरातिसारदाहदौर्बल्यारोचकाविपाकाः, पूतिमांसपिड़कालजीविद्रध्यादयश्च तत्प्रसङ्गाद भवन्ति ॥ १२ ॥ अस्य मधुमेहस्य सुश्रुते सौद्रमेह इति संज्ञा कृता। सर्वेषामेव प्रमेहाणां कालेनाप्रतीकारात् मधुररसखमापन्नले या मधुमेहसंज्ञा सा नेयमिति । एवमित्यादि सुगमम् ॥ १० ॥
गङ्गाधरः-तद यथेत्यादि । जटिलीभावः केशेषु । करपादयोः सुप्ततादाहो, इति विशेषेण वोध्यौ। परिदाहं सुप्तताश्चाङ्गेष्वितिवचनेन करपादयोरपि सुप्ततादाहलाभात् । षट्पदेति मक्षिका, शरीरे मूत्रे च मक्षिकापिपीलिकानाम् अभिसरणमित्यर्थः। मूत्रे मूत्रदोषान् कफादिसंसर्गजमाधुर्यादिदोषान्। विसमामं शरीरगन्धं सर्वकालं निद्रां वा तन्द्रां वा दर्शयन्तीत्यन्वयः ॥११॥
गङ्गाधरः-प्रमेहाणां विंशतेरुपद्रवान सामान्यत आह-उपद्रवास्वित्यादि। पूतिमांसपिड़काः कियन्तःशिरसीये माधुमेहिकी या या उक्ता सैव सैवात्र बोध्या। तत्प्रसङ्गात् प्रमहोपेक्षया चिरावस्थनात् । सुश्रुते श्लैष्मिकादि
चक्रपाणिः-त्रयस्त्विति त्रयोऽपीत्यर्थः ; तेन सर्वप्रमेहाणामप्येतदेव समानं पूर्वरूपमिति दर्शयति। तत्प्रसङ्गात् भवन्तीति प्रमेहाद्यनुबन्धाद भवन्तीत्यर्थः। यादृशे पुरुषे प्रमेहो
For Private and Personal Use Only