________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
प्रमेहनिदानम् मूत्रमवेगं, तं हस्तिमेहिनमित्याचक्षते । ओजः पुनर्मधुरस्वभावं तद्रौक्ष्याद वायुश्च कषायत्वेनाभिसंस्कृज्य मूत्राशयेऽभिवहन् मधुमेहं करोति । इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजो महाययिकत्वात् विरुद्धोपक्रमत्वाच्चेति। तेषामपि इत्यादि। अजस्रमित्यनेन निःशेपाभावः ख्यापितः। अवेगमित्यनेन मूत्रातिप्रवृत्तिः ख्यापिता। हस्तिमे हिनमिति हस्ती मत्त इवाजसमवेगञ्च मूत्रस्य क्षरणात् हस्तिमेह इति संज्ञा । . ओज इत्यादि। यदा तु स वायुः ओजः पुनर्मधुरस्वभावं तदोजो रोक्ष्यात् कषायवेन चाभिसंसृज्य संसर्ग कृत्वा मूत्राशये वस्तौ सौम्याञ्चलखाच अभिवहन् नयन सन् मिश्रीभवन मूत्रवेन परिणमन् कपायं मधुरं पाण्डुरुक्षञ्च मूत्रं श्च्योतयति तदा तं मधुमेहं करोति, इति मधुमेह इत्याचक्षते।। ___ इमानिति वसामेहमज्जमेहहस्तिमेहमधुमेहान्। असाध्यत्वे हेतुमाह-महात्ययिकलादिति। वसामन्जलसीकोजसां गम्भीरधातूनाम् अपकर्षणोत्पत्त्याशु मारकत्वात् । हेत्वन्तरश्चाह-विरुद्धेत्यादि। सव्वत्रैव प्रमेहेषु कफप्राधान्येन तेन कफेन संसृष्टवातस्य मेदःस्थानत्वात् बहुवद्ध मेदोमांसादिदृष्योपक्रमैः रुक्षोणादिभिः सह वातस्य स्नेहोष्णादुरपक्रमाणां विरुद्धत्वात्। अत्र चकारः उक्तानुक्तसमुच्चये व्यवस्थायाञ्च। तेनोक्तसमुच्चयोऽयं दर्शितो महात्ययिकत्वेन सहैव विरुद्धोपक्रमत्वस्य। अनुक्तसमुच्चयस्तु संसृष्टदोपमेदःस्थानत्वादित्यनेन विरुद्धोपक्रमत्वस्य बोध्यस्तत्र च व्यवस्थापीयम्। यदा तु कपायादिभिनिंदानः प्रकुपितो वायुबेहुबद्धमेदोमांसादिमति शरीरे सन् वसाद्याकर्षणेन वसामेहादिकान् जनयति तदा ते वसामेहादयो महात्ययिकत्वात् संसृष्टदोषमेदःस्थानत्वात विरुद्धोपक्रमत्वाच्च असाध्याः प्रत्याख्यया भवन्ति । यदा तु वसादीन नाकृष्य शरीरले दादिधातूनाकृष्य यान मेहान वातजान् जनयति ते पुनर्याप्याः संसृष्टदोषमेदःस्थानत्वाविरुद्धोपक्रमत्वाच्च। गम्भीरधातुवसायाकर्षणाभावात् तु न प्रत्याख्येयाः। वक्ष्यते च प्रमेह चिकित्सिते। या वातमेहान प्रति पूर्ववातो हि वृद्धः प्रभावात् पायरसं करोति । महात्ययिकत्वादिति मजप्रभृतिसारभूतधातुक्षयः करत्वात् ; विन्द्रोपक्रमत्वन्तु वायोः स्निग्धादि पथ्यम् , तन्मेदसोऽपथ्यमित्यादि ज्ञेयम् ॥९॥
For Private and Personal Use Only