________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्थ अध्यायः
निदानस्थानम्।
१३१५ वहाणि स्रोतांसि प्रतिपद्यते, तदा वसामेहमभिनिवर्तयति । यदा पुनर्मजानं मूत्रस्थानवस्तावाकर्षति, तदा मज्जमेहमभिनिवर्त्तयति। यदातु लसीका मूत्राशयेऽभिवहन् मूत्रमनुबन्धं श्चोतयति लसीकातिबहुत्वात् विक्षेपणाच्च वायोः खल्वस्यातिमूत्रप्रवृत्तिसङ्गं करोति, तदा स मत्त इव गजः परत्यजत्र
प्रमाणातिवृद्धखात्, स मांसप्रदोषान्मांसे शराविकाद्याः पिड़काः संजनयति । यदा तु तथाविधशरीरे विसर्पस्तु स वायुर्वसां सर्वशरीरस्नेहमादाय दूषयन् प्रविश्य मूत्राशयं मूत्रत्वेन परिणतः सन् मूत्रवहाणि स्रोतांसि वक्षणवस्तिप्रभवाणि मेदक दवसादुरपहितानि स्रोतांसि प्रतिपद्यते, तदा वसामे हमभिनिवर्तयति वसामेहरूपेण भवति। एवं सर्वरोगाभिनिर्वृत्तौ तत्तद्रूपेण स स दोपो भवतीति व्याख्येयम्। यदा पुनरित्यादि। यदा पुनमज्जानं मूत्रस्थाने वस्तावाकर्षति चलखात् तदा मज्जमेहमभिनिव्वेत्तेयति । यदा खित्यादि। यदा तु लसीका मांसखगन्तरस्थमुदकं मूत्राशये वस्तो अभिवहन् अभिनयन् मूत्रमनुबन्धं सावशेषं मूत्रं ३च्योतयति। मूत्रानुवन्धे हेतुमाह-लसीकातिबहुतात् । लसीका हि पिच्छिला, पैछिल्यात् तु न निःशेषेण मूत्रं ३च्युतं भवति । ननु पैच्छिल्याद्धमेव मूत्रं भवतु न किञ्चिदपि इच्योततु इत्यत आह-विक्षेपणाच वायोः। वायोश्चलत्वेन विक्षेपणान्न मूत्रं पैच्छिल्यात् सर्वशोबद्धं न भवति किन्तु सानुवन्धं इच्योतति। चकारात् लसीकाख्योदकस्यातिबहुखात् वायोविक्षेपणाच खल्वस्य पुंसो मूत्रातिप्रवृत्तिसङ्गं मूत्रस्यातिप्रवृत्तिश्च सङ्गश्च तयोः समाहारः तत् तथा समाहारकरणात् निःशेपेण न मूत्रातिपत्तिं करोति, किन्तु सङ्गपूवकमूत्रातिपत्तिं करोति, सावशेषं मूत्रातिक्षरणं करोतीत्यर्थः। स कीदृशः क्षरयतीत्यत आह-तदा मत्त इव गज
चक्रपाणिः-रुक्षेत्यादि वातमेहस्य निदानम्। मूत्रवस्तावाकर्षति मूत्रवस्तौ स्थित आकर्षति, अर्थात् मूत्रवस्तिमेव नयति ; लसीका मांसत्वगन्तरे उदकभागः, वक्ष्यति हि शारीरे-“यन्मांसत्वगन्तरे उदकं, तल्लसीकाशब्दं लभते' इत्यादि ; अनुबन्धमित्यविच्छेदेन। च्योतयतीति पातयति। अथ ।वायोर्विक्षेपकारित्वेन प्रवर्तकत्वेन कथं मूत्रप्रवृत्तेरन्तरा सङ्गः ? यतः, मूत्राशयं शैक्ष्यात् छेदयित्वा रक्षच कृत्वा नयत्योजः, स्वमहिम्ना च वायुरोजः कषायं करोति ;
For Private and Personal Use Only