________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१४
चरक-संहिता। प्रमेहनिदानम् कषायकटुतिक्तकरुनलघुशीतव्यवायव्यायामवमनविरेचनास्थापन-शिरोविरेचनातियोग-सन्धारणानशनाभिघातातपोद्वगशोकशोणिताभिषेकजागरणविषमशरीरन्यासान् उपसेवमानस्य तथाविधशरीरस्यैव क्षित वातः प्रकोपमापद्यते। स प्रकुपितस्तथाविधशरीरे विसर्पन् यदा वसामादाय मूत्रविरोधो नाशयः। तत्रोक्ताम्लमेहोऽत्र नीलमेहसंज्ञया पठितः। तत्रोक्तनीलमेहस्वत्र कालमेहसंशयापठितः। लक्षणातिरेकाल्पताया मेदोमांसादिदृष्यकाय्यत्वेनोन्नेयम् ॥ ८ ॥
गङ्गाधरः-अथ वातोल्वणप्रमेहान् वक्ति-कपायेत्यादि। कपायादीनामतियोगः। सन्धारणं वेगानाम्। अनशनमुपवासः। उद्वेगः क्रियासु मनस उपस्थितप्रत्तिः। शोकोऽभीष्टविरहजं दुःखम् । शोणिताभिषेकः शोणितमोक्षः। जागरणं निशायाम्। विषमशरीरन्यासोऽयथावच्छरीरप्रवृत्तिः। एते कपायादयो निदानविशेषाः। तथाविधशरीरस्यैवेति। कपायादिनिदानसेवनेन बहुबद्धमेदोदुष्टमांसशरीरक दशुक्रशोणितवसामजलसीकारसौजांसीति इत्येके, न तु बहुबद्धं मेदो मांसश्च शरीरक्लेदः शुक्रं शोणितं वसा मज्जा लसीका रसश्चौज इत्येते दृष्यविशेषाः । ज्वरादिषु ह्यषां सव्वेषां न दृष्यवमतः सर्वेष्वेव प्रमेहेषु चैषां दृष्यवाविशेपेऽपि ज्वराद्यपेक्षया प्रमेहे दृष्यविशेषत्वम् । वात इति पित्तकफानुगवायुरिति दोषविशेषः। एपां त्रयाणां निदानादीनां सन्निपाते प्रागतिभूयस्वात् वातः क्षिप्र प्रकोपमापद्यते इत्यर्थः ।
स प्रकुपित इत्यादि। स वायुः प्रकुपितस्तथाविधशरीरे कषायादुरपसेवनेन बहुबद्धमेदोमांसादिमति शरीरे विमृप्तिं लभते। बहुबद्धमेदोमांसादित्वेन शरीरस्य शैथिल्यात् तत्र शरीरे विसर्पस्तु स वायुमेंदसैवादितो मिश्रीभावमृच्छति मेदसश्च बहुबद्धखात्, मेदसश्च शैत्यवैशद्यादिगुणानां समानगुणखात्। स च मेदसा मिश्रीभवन् सन्दृषयत्येनं विकृतवात्। स यदा विकृतो दुष्टेन मेदसोपहतः शरीरक्लेदमांसाभ्यां संसर्गमेति क्लेदमांसमधुरशीतादि पघ्यम्, तदपथ्यं मेदसः, यच्च मेदलः कटुकादि पथ्यम्, पित्तस्य तदपथ्यम् ; चकारव्याधिप्रभावाच्चाद याप्यत्वमिति दर्शयति ॥ १८ ॥
For Private and Personal Use Only