________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः निदानस्थानम् । तत्र श्लोकाः पित्तप्रमेहविशेष-विज्ञानार्था भवन्ति ।
गन्धवर्णरसस्पर्शर्यथा क्षारस्तथाविधम् । पित्तकोपानरो मूत्रं क्षारमेही प्रमेहति ॥ मसीवर्णमजस्र यो मूत्रमुष्णं प्रमेहति । पित्तस्य परिकोपेण तं विद्यान् कालमेहिनम् ॥ चाषपक्षनिभं मूत्रमम्लं मेहति यो नरः। पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम् ॥ वित्र लवणमुष्णञ्च रक्तं मेहति यो नरः। पित्तस्य परिकापेण तं विद्याद रक्तमेहिनम् ॥ मञ्जिष्ठोदकप्तकाशं भृशं विस्त प्रमेहति । पित्तस्य परिकोपात् तं विद्यान्माञ्जिष्ठमेहिनम् ॥ हरिद्रोदकसङ्काशं कटकं यः प्रमेहति । पित्तस्य परिकोपात तं विद्याद्धारिद्रमेहिणम् ॥ इत्येते पट प्रमेहाः पित्तप्रकोपनिमित्ता व्याख्याता भवन्ति॥८॥ प्रधानस्तेन कफेन संसृष्टस्य दोषस्य प्रकरणात् पित्तस्य मेदास्थानखात् तेन मेदःप्रभृतिदृष्यहरणक्रियया पुनश्च चिकित्सायां विरुद्धोपक्रमवाच। चिकित्सिते वक्ष्यते प्रमेहहेतुः कस्कृच्च समिति । यदा पित्तं मेदःस्थानं न गला प्रमेहकरं भवति तदा पित्तजा अपि प्रमेहाः साध्या भवन्तीति बोध्यम् ॥७॥
गङ्गाधरः-पट पित्तप्रमेह विज्ञानार्थान् श्लोकानाह-तत्र श्लोका इत्यादि। गन्धेत्यादि। क्षारो भस्मप्र तोदकम्। सुश्रुतेऽप्युक्तं स तक्षारप्रतिमं क्षारमेही मेहतीति। मसीत्यादि सुगमम् । चाषेत्यादि चापः पक्षिविशेषः । ननु मुश्रुते नीलमेहोऽन्यथा पठितः सफेनमच्छं नीलं नीलमेही मेहतीति । कालमेहस्तु न पठितः, अम्लमेहश्च पठितः. अम्लरसगन्धमम्लमेही मेहतीति, भावः ; किंवा संमृ दोपं मेदोरूपं स्थानं यस्य स तथा, एष विरुद्धोपक्रमत्वे हेतुः ; नेन यस्मात् पित्तरूपेण दोषेण सम्बद्धं मेदोरूपं स्थानम्, तस्माद विरुद्धोपक्रमता ; यदि पित्तस्य
१६५
For Private and Personal Use Only