________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१२ चरक-संहिता।
प्रमेहनिदानम् तु खलु पित्तगुणविशेषेणैव नामविशेषा भवन्ति । तद् यथाक्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च माञ्जिष्ठमेहश्च हारिद्रमेहश्चेति। ते षडूभिरेतैः क्षाराम्ललवणकटुविस्रोष्णैः पित्तगुणैरेव पूववत् समन्विता भवन्ति। ते सर्व एव च याप्याः ज्ञयाः संस्कृष्टदोषमेदःस्थानकत्वात् विरुद्धोपक्रमत्वाच्च इति ॥७॥ तेषामपि विति। तुशब्दात् शरीरक्लेदस्तु पित्तमेदोमिश्रः प्रविशन मूत्राशयं मूत्रबमापद्यमानः पैत्तिकैर्गन्धरसरूपस्पशः वैषम्ययुक्तरेभिवेक्ष्यमाणैः क्षाराम्ललवणकटकविस्रोष्णरुपगृह्यते। तत्र येन येन गुणनैकेनानेकेन वा भूयसा वा समुपगृह्यते तेन तेन खलु विकृतेन पित्तगुणविशेषेण तेषां षण्णां पित्तप्रमेहाणां तत्समाख्या नामविशेषा भवन्तीत्यर्थः ।
तदाह-तद् यथेत्यादि । क्षारमेहश्चेति वैषम्यमापन्नः क्षारस्येव पित्तस्य गन्धरसरूपस्पशैंः क्षारमेह इति संज्ञा। कालमेहश्चेति पित्तस्य मसीतुल्यवणेवत् वैषम्यमापन्नवणेन उष्णेन च कालमेह इति संशा। नीलमेहश्चेति चाषपक्षिणो नीलवर्णवत् पित्तस्य वैषम्यमापन्नस्य नीलवर्णेनाम्लरसेन च नीलमेह इति संशा। लोहितमेहश्चेति वैषम्यमापन्नः पित्तस्य विस्रगन्धलवणरसरक्तवर्णोष्णस्प लौहितमेह इति संज्ञा। माञ्जिष्ठमेहश्चेति वैषम्यमापन्नाभ्यामामगन्धमाञ्जिष्ठोदकतुल्यरक्तवर्णाभ्यां माञ्जिष्ठमेह इति संशा । हारिद्रमे हश्चेति कटुरसहारिद्रवर्णाभ्यां पित्तस्य हारिद्रमेह इति संज्ञा। तें षट् पित्तप्रमेहाः कथं क्षारमेहादिसंज्ञां लभन्ते इत्यतआह-ते षभिरित्यादि । पित्तगुणैः पित्तस्य गन्धरसरूपस्पशेविकृतिभूतगुणैः। पूर्ववदिति श्लेष्मप्रमेहोक्तशरीरक्क्लेदस्तु इत्यादिना प्रदर्शनवत्। ते सव्वे एवेति षट ते पित्तोल्वणजाः। कस्मात् याप्या इत्यत आह-संसृष्टेत्यादि। सर्वत्रैव प्रमेहेषु त्रिदोषजवेऽपि कफस्य प्राधान्ये संसर्गात् पित्तप्रमेहेषु पित्तवत् कफोऽपि इलेष्मणो यक्षिप्रकारित्वेन क्षिप्रतरोत्पादो नोक्तः। पूर्ववदयुक्ता भवन्तीति श्लेष्मवत् वृद्धिहानियुक्ता एवेत्यर्थः। संसृथ्दोषमेदास्थानत्वादिति सन्निकृष्टं दोषस्य पित्तस्य मेदसश्च स्थानम् ; यस्मात् पित्तस्य हि आमाशयः स्थानम्, तथा मेदसोऽपि यत् स्थानं वसाबहुलम्. तदपि आमाशयैकदेश एव ; तेन दोषदूष्ययोः स्थानप्रत्यासत्या दूषणं नित्यं प्रत्यासन्नत्वात् दुर्जयमिति
For Private and Personal Use Only