________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः
निदानस्थानम्। उष्णाम्ललवण ना कटुकाजीर्णभोजनोपसेविनः तथातितीक्ष्णातपाग्निसन्तापश्रमक्रोधविषमाहारोपसेविनश्च, तथाविधशरीरस्यैव पित्तमाशु प्रकोपमापद्यते । तत् प्रकुपितं तयैवानुपूर्ध्या प्रमेहानिमान् षट् क्षिप्रतरमभिनिर्वर्त्तयति। तेषामपि अन्यत्राप्युक्तं-सुरामेही सुरातुल्यमुपयेच्छमधोधनमिति। अणून सिकतावत् सूक्ष्मान् मूर्त्तान् मूत्तिमतो मत्रगतान् दोषान् मेहति ॥६॥
गङ्गाधरः-अथ पित्तमहान वक्ति--उष्णाम्लत्यादि। एतन उण्णा-; म्लादयो विषमाहारान्ता निदानविशेषा इत्युक्तम् । तथाविधशरीरस्यैवेत्यनेन बहुबद्धमेदोदुष्टमांसशरीरक्लेदशुक्रशोणितवसामजलसीकारसोजांसि दृष्यविशेषा इत्युक्तम् । पित्तमित्यनेन पित्तोल्वणास्त्रयो दोपा दोपविशेषा इत्युक्तम् । आशु प्रकोपमापद्यते इत्यनेन त्रयाणामेषां निदानादिविशेषाणां सनिपाते प्रागतिभूयस्वान् वातकफानुगं पित्तमाशु प्रकोपमापद्यते इत्युक्तम्। सुश्रुतेऽप्युक्तं-“वातकफशोणितमंदोभिरन्वितं पित्तं पित्तमेहान् जनयतीति।” तत् वातकफानुपित्तं तयैवानुपूर्वोति क्षिप्रमेव शरीरमृप्तिं लभते शरीरशैथिल्यात तत् विसर्फत् शरीरे मेदसैवादितो मिश्रीभावं गच्छति मेदसश्चैव बहुबद्धखात् । मेदसश्च गुणानां स्नेहद्रवादीनां समानगुणभूयिष्ठखात्। तत् मेदसा मिश्रीभवत् सन्दषयत्येनं विकृतखात्। विकृतन्तु तत् तेन च दुष्टेन मेदसोपहतं शरीरक्लेदमांसाभ्यां संसर्गमेति। क्लेदमांसयोरतिप्रमाणाभिवृद्धखात् । तत् तु मांसे मांसप्रदोषान् पूतिमांसपिड़काः शराविकाकच्छपिकायाः संजनयत्यपकृतिभूतवात्। शरीरक्लेदं पुनर्दू पयत् तत् पित्तं मूत्रवेन परिणमति । मूत्रवहाणाञ्च वङ्गणवस्तिप्रभवाणां स्रोतसां मेद क्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते, ततः प्रमेहानिमान षट् क्षिपतरमभिनिव्वतयति । भवति। मूर्तीनिति कठिनान् ; दोपानिति जाती बहुवचनम् ; येन, दोषोऽत्रैक एव प्रभूतः कफः। तन्तुबद्धं तन्तुबद्दीर्घमित्यर्थः। लालामिवालालं समन्ताल्लालारूपमित्यर्थः। प्रति प्रति मेहञ्च श्लेष्मकोपत इत्यादिवचनं सुखग्रहणार्थम्। न चेह वाच्यम्-यद्-यथा श्लेष्मगुणा दश प्रमेहान् जनयन्ति, न तथा किमित्यपरानपि गुणसंसर्गविकल्पान्तरेण कुर्वन्तीति ; यतः, भावस्वमावोऽयम्-यथा दृट एव परं कल्प्यते नादृष्टे च ; न हि सत्यपि भूतसंसर्गभूयस्त्वे रसभूयस्त्वं भवतीति व्यवस्थितमेव ॥ ६॥
चक्रपाणिः-उष्णेत्यादिना पित्तमेहनिदानम्। पट क्षिप्रतरमिति श्लेष्ममेहापेक्षया ;
For Private and Personal Use Only