________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१० चरक-संहिता।
प्रमेहनिदानम् अत्यर्थमधुरं शीतमीषत् पिच्छिलमाविलम् । काण्डेक्षुरससङ्काशं श्लेष्मकोपात् प्रमेहति ॥ यस्य पर्युषितं मूत्र सान्द्रीभवति भाजने । पुरुषं कफकोपेन तमाहुः सान्द्रमेहिनम् ॥ यस्य संहन्यते मूत्र किञ्चित् किश्चित् प्रसीदति। सान्द्रप्रसादमेहीति तमाहुः श्लेष्मकोपतः ॥ शुक्लं पिष्टनिभं मूत्रमभीक्ष्णं यः प्रमेहति । पुरुवं कफकोपेन तमाहुः शुक्लमेहिनम् ॥ शुक्राभं शुक्रमिथ वा मुहुर्मेहति यो नरः। शुक्रमे हिनमाहुस्तं पुरुषं श्लेष्मकोपतः ॥ अत्यर्थमधुरं शीतं मूत्रं मेहति यो भृशम् । शीतमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः ॥ मूर्त्तान् मूत्रगतान् दोषानणन् मेहति यो नरः । सिकतामेहिनं विद्यात् तं नरं श्लेष्मकोपतः ॥ मन्दं मन्दमवेगन्तु कृच्छ्यो मूत्रयेच्छनैः । शनैर्मेहिनमाहुस्तं पुरुष श्लेष्मकोपतः ॥ तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति।
आलालमहिनं विद्यात् तं नरं शेष्मकोपतः॥ इत्येते दश प्रमेहाः श्लेष्मकोपनिमित्ता व्याख्याता भवन्ति॥६॥ उदमेहीत्युदकमेही। काण्डेषु इक्षुवालिका। संहन्यते मूत्रं भाजने धृतमधस्तात् संघातीभवति। किञ्चित् किञ्चित् प्रसीदतीति उपरिष्टादच्छं भवति । रससङ्काशमिति किमित्युच्यते, इक्षुवालिकाकाण्डेश्वोरांन्तरत्वात् : नैवम्, इक्षुबालिकारसस्य तथा काण्डेक्षो रसस्य च एकरूपताप्रतिपादनार्थमुभयोरुपादानम् ; किंवा काण्डेक्षुरसतुल्योऽपि तथा इक्षुवालिकारसतुल्यश्चेचवालिकामेहो भवतीत्युभयोपादानाद दर्शयति। संहन्यते स्त्यानी
For Private and Personal Use Only