________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्थ अध्यायः । निदानस्थानम् ।
१३०६ शीतमेहश्च सिकतामेहश्च शनैर्महश्वालालमेहश्चेति। ते दश प्रमेहाः सा-याः समानगुणमेदःस्थानकत्वात् कफस्य प्राधान्यात् समक्रियत्वाच ॥५॥ तत्र श्लोकाः श्लेष्मप्रमेहविशेषविज्ञानार्था भवन्ति
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्। ' श्लेष्मकोपान्नरो मूत्रमुदमेही प्रमेहति ॥
श्वेतगुणेन शुक्लमेह इति संज्ञा । सुश्रुते तु हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही मेहती. त्युक्तम् । शुक्रमेहश्चेति श्वेतमूर्तखाभ्यां शुक्रयोगेण च शुक्रमेह इति संज्ञा । शीतमेहश्चेति शीतमधुराभ्यां शीतमेह इति संज्ञा। श्वेतादिगुणैः शनैमेह इति संशा। आलालमेहश्चेति पिच्छिलसान्द्राभ्यामालालमेह इति संशा । सिकता. मेहश्चेति श्वेतमत्तैबाभ्यां सिकतामेह इति संज्ञा। गुणान्तराणान्तु नियमो नास्ति, परन्तु उक्तगुणानामतिरिक्तगुणं म्रत्रं दृष्ट्वा तद्गुणयोग उन्नेयः। सुश्रुते तु सान्द्रप्रसादमेह शीतमेहालालमेहान् न पठिखा सुरामेही सुरातुल्यं विशदं लवणतुल्यं लवणमेही स्तोकं स्तोकं सफेनश्च फेनमेही मेहतीत्युक्तम् । अन्यत्रापि सुरामेही सुरातुल्यमुपय्यच्छ प्रधोघनमित्युक्तं, तत्सव्वं मेदोमांसादिदृष्याधिक्येऽमीषामेवोन्नेयम् । न होता दश संशा मेदोमांसादिबाहुल्यादिखे कृताः परन्तु शरीरकलेदस्य मूत्रखापत्रले श्लेष्मणो दशगुणान्यतमै कादिगुणान्वयेन कृतास्तदगुणानुरूपाणि लिङ्गानि च वक्ष्यन्ते, न तु मेदोमांसादिदूष्यकृतलक्षणानि इति ॥५॥
गङ्गाधरः-तानि लक्षणान्याह-तत्र श्लोका इत्यादि। अच्छमित्यादि ।
नाम, यथा-शीतमेहशुक्रमेहसान्द्रमेहेषु। अन्न हि शीतादिगुणाख्ययैव मेहा व्यपदिश्यन्ते ; इतरेषु तु उदकमेहादिषु न श्वेतादिगुणसंज्ञातुल्यं नाम, किं तर्हि श्लेष्मण एवं गुणयुक्तोदकादितुल्यत्वेन गुणयोगप्रवृत्तत्वात् गौणमुदकमेह इति ; अच्छसितशीतादिकफगुणयोगाद गौणमुदकमेह इति नाम भवति । एवमन्यत्राप्यनुसरणीयम् ; उदकादयस्त्विह कफगुणमेलकलक्षणार्थाः तत्तत्कफगुणयुक्ता उपात्ताः संज्ञाकरणार्थं विशेषविज्ञानार्था भवन्तीति परस्परभिन्नलक्षणप्रतिपादका इत्यर्थः॥५॥
चक्रपाणिः-उदकोपममिति उदकवर्णादितुल्यम्। ननु इक्षुवालिकातुल्ये मेहे काण्डेक्षु
For Private and Personal Use Only