________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०८ चरक-संहिता।
प्रमेहनिदानम् मूत्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादगन्धः । तत्र येन येन गुणेनैकेनानेकेन वा भूयसा समुपगृह्यते तत्समाख्यं गौणं नामविशेषं प्राप्नोति । ते तु खल्विमे दश प्रमेहा नामविशेषेण भवन्ति। तद् यथा-उदकमेहश्चेक्षुबालिकारस. मेहश्च सान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च वैषम्ययुक्तः। करित्यत आह-गुणैः श्वेतशीतमूर्त्त स्निग्धपिच्छिलाच्छगुरुमधुरसान्द्रप्रसादगन्धैरुपसृज्यते समानखात्, स्वगुणानां वैषम्ययुक्तैरिति वृद्धः। ननु कैः श्लैष्मिकैगुणैरित्यतस्तान् गुणानाह-तद् यथेत्यादि। सान्द्रप्रसादः सान्द्रखेऽपि किश्चिद्विशदः सान्द्रप्रसादो गन्धोऽत्र विस्रगन्धः। अत्र श्लेष्मणः कत्तु खेन प्राधान्यात् तद्धम्र्मणव नामविशेषः कत्तुं युज्यते न खप्रधानमेदःक्लेदादिधम्मेणेत्यत आह-तत्र येनेत्यादि । समुपगृह्यते श्लेष्ममेदोमिश्रो मूत्राशयप्रविष्टो मूत्रखमापन्नः शरीरक्लेदः। स नामविशेष गौणमेव प्रामोति मुख्यनाम हि शरीरक्लेदः। ते विति । श्लेष्मा मेदोमिश्रो मूत्राशयप्रविष्टो मूत्रखमापन्नः श्लैष्मिकश्वेतादेकानेकभूयोऽन्यतमगुणोपगृहीतः खल्वेते दश प्रमेहाः नामविशेषेण भवन्ति । तन्नामान्याह-तद यथेत्यादि। श्वेत. शीताच्छगुणैरुपगृहीतखेन शरीरक्लेदस्योदकनिभवादुदकमेह इति संज्ञा । इक्षु. बालिकारसमेहश्चेति शीतपिच्छिलाच्छाभावमधुरगुणैरुपगृहीतखेन काण्डेक्षु. खरसवद द्रवखेन मूत्रस्य इक्षुबालिकारसमेह इति संज्ञा। सुश्रुते इक्षुमेह इति संशा इक्षुरसतुल्यत्वात् । सान्द्रमेहश्चेति सान्द्रगुणेन गृहीतखात् सान्द्रमेह इति संशा । सान्द्रप्रसादमेहश्चेति सान्द्राच्छगुणाभ्यां सान्द्रप्रसादमेह इति संज्ञा । वृद्धवृद्धतरवादिना हानिवृद्धी बोद्रव्ये ; तेन श्वेतादिगुणवृद्धा ये शुक्रमेहादय उक्ताः, तेवपीतरे श्लेष्मगुणा हानिवृद्धिरूपवैपम्पयुक्ताः सन्तीत्यर्थः ; किंवा वैषम्ये सति क्वचित् द्वयोश्र क्वचित् प्रयाणां क्वचिच्च चतुणी गुणानां वृद्धिर्भवतीति दर्शयति ; तेन गुणसंख्योत्कर्षापकर्षाद हानिवृद्धी झेये ; न चेह श्वेतादिदशगुणयोगात् यथासंग्ग्यं दश प्रमेहाः, किन्तु व्यस्तसमम्तगुणयोगाच्च, अत एवाह-“येन गुणेन एकैके नानेकेन वा इत्यादि । सान्द्रप्रसादशब्देनैक एव गुणो गणनीयः । सान्द्रमेहव्यपदेशस्तु सान्द्रप्रसादगुणेकदेशोद्भूतत्वेन ज्ञेयः ; तत्समाख्यमित्यादौ तत्समाख्यं वा तद्गौणं वा नामविशेषं प्राप्नोतीति योजनीयम् ; तदगुणस्य समा आख्या यस्य तत्पमाख्यं
• गन्धैरित्यत्र मन्दैरिति वा पाठः ।
For Private and Personal Use Only