________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धुर्थ अध्यायः . निदानस्थानम् ।
१३०५ त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षित श्लेग्मा प्रकोपमापद्यते प्रागतिभूयस्त्वात् । स प्रकुपितः क्षिप्रमेव शरीरविस्मृप्तिं लभते । शरीरशैथिल्यात् स विसपन् सर्वशरीरे मेदसैवादितो मिश्रीभावं गच्छति । मेदसो बहुबद्धत्वात् * लसीका स्वयं वक्ष्यते--यत् तु मांसखगन्तरे उदकं तल्लसीकाशब्दं लभते इति। रस आद्यो धातुः। ओज इत्यर्द्धाञ्जलिमितं श्लेष्मविशेषो न तु रस एवौजस्तस्य पाठवैयर्थ्यात् । इति। दृष्यविशेषाः संख्याता नापरे ॥४॥
गङ्गाधरः--निदानदोषदृष्यविशेषान् श्लेष्मप्रमेहाणामुक्त्वा विधिरूपां सम्प्राप्तिमाह-त्रयाणामित्यादि। निदानादिविशेषाणाम् उक्तानां हायनका. धन्यतमैकद्विवादिनिदान-विशेष श्लेष्मोल्वण-त्रिदोषविशेष-बहुबद्धमेदः प्रभृतिसमस्तदृष्यविशेषाणां सन्निपाते समुदायवेन समवाये सति प्रागतिभूयस्वात् । हायनकादिसेवनात् पूर्व कारणान्तरसेवनेन न्यूनवातपित्ताभ्यां सहाधिकमानेन सश्चितखात् श्लेष्मा हायनकाधन्यतमैकादिनिदानात् क्षिप्र प्रकोपमापद्यते । सुश्रुतेऽप्युक्तं-तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहान् जनयतीति । मेदोऽन्वयं दर्शयति-स इत्यादि। स वातपित्तन्यूनाधिकश्लेष्मा शरीरविमृप्ति शरीरे विसर्पणं क्षिप्रमेव लभते करोतीत्यर्थः । स किं कुरुते इत्यत आह-शरीरेत्यादि । शरीरशैथिल्यात् बहुबद्धमेदसा जाताद् देहशिथिलीभावात् स न्यनवातपित्तसहिताधिकश्लेष्मा शरीरे विसर्पन सन् आदितो मेदसैव मिश्रीभावं गच्छति । ननु कुत आदितो मेदसैव मिश्रीभावमेति इत्याशङ्कायामाह-मेदसेत्यादि। यद्धि बहुलं तदेवादितः संमृज्यते समुपस्थितखात्, न खबहुलं पश्चात्वसामजज्ञोश्च द्वितीयमपि, शेषेषु बहुत्वम् ; ओजःसंख्यात इति ओजोरूप एव ; वक्ष्यति हि प्रमेहचिकित्सिते-“मजा रसौजः पिशितञ्च" इति ; दूष्येति बह्वबद्धमैदआदीन् प्रत्यवमृषति ; किंवा, 'संख्याताः' इति पाठः सुगमः ॥ ४ ॥ ___ चक्रपाणिः--सन्निपाते मेलके । प्रकोपमापद्यते इति प्रमेहकरणायोद्यतो भवतीति ; कुतः प्रमेहकरणायोद्यतो भवतीत्याह–प्रागतिभूयस्त्वात् ; प्रागित्युत्पादकाल एव ; यस्मात् प्रमेहकरणं प्रत्यभिमुखो भूयांश्च कफो भूतः, तत इत्यर्थः । प्रमेहनिदानेन हि कफोऽयं प्रमेहकरणाभिमुखो जनितो भूरिश्च ; ततो भूयस्त्वात्, तथा प्रमेहकरणशक्तियोगाच्च तथा प्रकुप्यतीति युक्तम् ;
* बह्वबदत्वादिति वा पाठः ।
१६४
For Private and Personal Use Only