________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०४ चरक-संहिता।
। प्रमेहनिदानम् यवक-चीन-कोदालक नैषधेत्कटमुकुन्दकमहानीहिप्रमोदकानां सुगन्धकानाच नवान्नानामतिवेलमतिप्रमाणेन चोपयोगः, तथा सर्पिष्मतां नवहरेणुमाषसूध्यानां ग्राम्यानपौदकानाञ्च मांसानां शाकतिलपललपिष्टान्नपायसकृ.शरविलेपीक्षुविकाराणां क्षीरमन्दकदधिद्रवमधुरतरुणप्रायाणामध्युपयोगः, मुजाव्यायामवर्जनं स्वमशयनासनप्रसङ्गो यः कश्चिद्विधिरन्योऽपि श्लेष्ममेदोमूत्रजननः स सव्वा निदानविशेषः। बहुद्रवः श्लेष्मा दोषविशेषः । बहुबद्धं मेदो मांसं शरीरजक्लेदः शुक्र शोणितं वसा मजा लसीका रसश्चौज इति संख्याता दूष्यविशेषाः ॥ ४ ॥ ननु के ते. निदानादिविशेषा इत्यत आह-तद् यथेत्यादि । हायनकेत्यादि। हायनकादीनां देशविशेषे स्वनाम्ना ख्यातप्रसिद्धानामतिवेलपतिशयं सर्पिष्मतां बहुसर्पियुक्तानां नवानां नूतनानां हरेणुमापाणां वत्तु लकलायमाषाणां सूप्यानां, तिलपललेति तिलकल्कः। कुशरं तिलमाषयवपिष्टकृता यवागूः । मन्दकदधीति मन्दजातदधि च द्रवञ्च मधुरं तरुणश्च यद् द्रव्यमन्यत् तदपि प्रायं बहुलं यत्र तेषाम् । मृजा गात्रमार्जनं मृजाव्यायामयोवेज्जनं त्यागः। स्वप्नो दिवानिद्रा स्वमादीनां प्रसङ्गः सततमुपसेवा । अन्योऽपीत्यचिन्तादिः। श्लेष्मेति श्लेष्मप्रधानदोपत्रयम् । बहुद्रवो न खल्पद्रवः। श्लेष्मा श्लेष्मोल्वणदोषत्रयम् । सव्वेषां प्रमेहाणां त्रिदोषजखात् । सुश्रुतेऽप्युक्तं प्रमेह निदाने । तत्राविलप्रभूतमूत्रलक्षणाः सव्चे एव प्रमेहाः सव्वे एव सव्वदोषसमुत्थाः सह पिड़काभिरिति । अत्र सब्वे एव प्रमेहा इति वक्ष्यमाणा विंशतिरेव न खपरे। बहुबद्धमित्यस्य मेदोमांसाभ्यामन्वयः। मेदो मांसोत्तरधातुः । शरीरजक्लेदो मूत्रादिद्रवः। वसा मांसस्य स्नेहः सर्वधातुस्नेहो वा। तत्रेत्यादि। इह कफ एवाग्रऽभिधीयते भूरिप्रमेहकर्तृत्वात् । हायनको धान्यविशेषः ; अतिवेलमिति पुनःपुनः ; हरेणुर्वहलकलायः ; तिलतण्डुलमाषकृतः कृशरः , मजा उद्वर्तनम् ; सर्वः स निदानविशेष इति, एवम्भूतमेव निदानं प्रमेहकर्तुः श्लेष्मणः कारणमित्यर्थः । बहुद्रवः इलेप्मा दोषविशेष इति बहुदव एव कफो मेहजनकः, नाल्पद्रव इति। अबद्धमिति असंहतम् ; अत्र तु बहुत्वमघनत्वञ्च यथायोग्यतया बोद्धव्यम् ; तेन मेदसि मांसे
For Private and Personal Use Only