SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्र्थ अध्यायः निदानस्थानम् । १३०३ इति सर्वविकारविघातभावाभावभावप्रतिविशेषाभिनिवृत्ति. हेतुर्भवत्युक्तः ॥३॥ तत्रमे त्रयो निदानादिविशेषाः श्लेष्मनिमित्तानां प्रमेहाणामाश्वभिनिवृत्तिकरा भवन्ति । तद् यथा-हायनकअभावोऽनुत्पत्तिरित्येको न विघातविशेपो निदानादित्रयसद्भावे हि विघातव्याख्यानवचनम् । अथावलीयसां निदानादीनामप्रकादप्यनुवन्धविपर्ययेऽपि विकाराणामभावोऽनुत्पत्तिरिति द्वितीयो विकाराणां भावस्य विशेषः । तेषां कालेऽपि कारणान्तरेण वललाभाभावे चिरादपि न विकाराभिनि त्तिः भवति। एवं तेषामेवावलीयसां निदानादीनां परस्परानुबन्धानां कारणान्तर लाभाभावे च तनुरूपेणापि विकारानुत्पत्ति प्ययथोक्तसवलिङ्गतया विकारोत्पत्तिरिति भावाभावो विकाराणामिति । अथैकान्तेन विकारोत्पत्तिहेतुमाह-विपय्येये विपरीता इति । निदानादीनां त्रयाणां विघातभावा भावयोविषय्यये खल्वेकान्तेन विकारोत्पत्तिभवति । तद् यथा-निदानादीनां वलवतां यदा परस्परानुवन्धो भवति तदावश्यं विकाराभिनित्तिभवति । इति । अथैपां विकाराणां निदानादित्रयसद्भावेऽपि तेषामुत्पत्तौ विघातस्य भावाभावस्य भावस्य च हेतुवचनमुपसंहरति-इतीत्यादि ॥३॥ गङ्गाधरः-ननु प्रमेहरोगे निदानादयः कीदृशा इत्यत आहतत्रेम इत्यादि। इमे वक्ष्यमाणा हायनकादयः। वातपित्तकोपने स्वल्पबलवत्त्वेन श्लेष्मकोपन सम्पूर्णवलखेन सम्पूर्णबलेन कुपितश्लेष्मणो दृप्यदृपणे क्षिप्रक्रियावत्वेन सम्पूर्णवलखात् इलेप्मनिमित्तानां श्लेष्मोल्व. णानां त्रिदोषनिमित्तानाम् । आश्वभिनि त्तिकरा न तु चिरात् । प्रकारेण लिङ्गान्युक्तानि, न तेन प्रकारेणापि सर्वलिङ्गानि भवन्तीत्यर्थः ; एवमेते निदानादीनाम् अननुबन्धविशेषकृता विकारविघाताभावस्य प्रतिविशेषा उक्ताः । सम्प्रति निदानादीनां परस्परानुबन्धविशेषकृतान् विकाराणां विघातभावविशेषानाह-विपर्यये विपरीता इति ; विपर्यय इति निदानादीनामनुबन्धे तथा शीघ्रानुबन्धे तथा बलवताञ्चानुबन्धे ; विपरीता इति निवर्तमाना विकाराः, तथा शीघ्र निर्ध्वर्त्तमानास्तथा महान्तो यथोक्तस+लिङ्गाश्चेति यथासंख्यं बोध्यम् । उपसंहरति-इतीत्यादि। एतच्च प्रकरणं सवंविकारसाधारणमपि प्रमेहस्य परस्परानुबन्धिभिरेव निदानादिभिर्जन्म भवतीति ख्यापयितु प्रमेहनिदाने कृतम् ॥३॥ चक्रपाणिः--सम्प्रति प्रकृते कफजादिमेहे परस्परानुबन्धिनो निदानादिविशेषानाह-- For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy