________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०२ चरक-संहिता।
प्रमेहनिदानम् नितिर्भवति। अथाप्रकर्षादवलीयांसो वानुवनन्ति, न तदा विकाराभिनिर्वृत्तिर्भवति। चिराद्वा यभिनित ते. तनवो वा भवन्यथवाऽयथोक्तसर्वलिङ्गाः, विपर्यये विपरीताः । नितिर्भवति। इत्येकान्तेन विघातो व्याख्यातः। अथाप्रकर्षाद यदि ते निदानादयोऽवलीयांसोऽनुवन्नन्ति तदाप्यवश्यं न तत्तज्ज्वरादिविकाराणामभिनित्तिर्भवति। इत्यनेकान्तेन ज्वरादिव्याधीनां भावश्चाभावश्चेत्येकविधभावाभाव उक्तः। अपरस्तु अथ कथमनेकान्तेन विघातः स्यादित्यतो विघातस्यानै कान्तिकखप्रदशनेन विकाराणां भावविशेषा उच्यन्ते । चिराद् वाप्यभिनिवर्तन्त इति। यदा खल्वप्रकर्षान्निदानादयस्त्रयस्त्ववलीयांसः परस्परमनुबध्य विकारं नारभन्ते ततः कारणान्तरेण क्रमेण यावता कालेन बलं लभन्ते बलश्च लभमानास्तावत्कालानन्तरं विकारमारभन्ते इति चिराद्वा विकारा अभिनितन्ते इति विकाराणामपरो भावाभावविशेषः । यदि कारणान्तरयोगेण बलतः प्रकर्ष न लभन्ते तदा तद् यत्किञ्चित्कारणयोगेन किश्चिद्वलं लभमानास्तनन सूक्ष्मान् विकारानारभन्त इति तनवो विकारा भवन्ति । इत्यपरो विकाराणां भावविशेषः । अथवा तनवो विकारा न भूखा भवन्त्ययथोक्तसव्वलिङ्गा यथोक्तसव्वलिङ्गादल्पलिङ्गव्यक्ततापन्ना विकारा इति विकाराणां चतुर्थी भावाभावविशेपः। इति विकाराणां चतुर्विधा भावाभावस्य विशेषाः। यदा निदानोपसेवनं नास्ति न तदा वातादयः कुप्यन्ति रसादयश्च न दूष्यन्ते तैरित्यतो विकाराणामेकान्तेन बोद्धव्यः ; निदानस्य च दोषाननुबन्धः समानासमानगुणयोगात् किञ्चिद्दोषजनने बोद्धव्यः, सर्वथा दोपवैपरीत्ये तदा दोषजननं प्रति उदासीनत्वे न च निदानस्य निदानत्वमेव स्यात् ; जनक हि निदानमुच्यते ; अथवा कालप्रकर्षादिति अनुबनन्तीत्यनेन सम्बन्धः ; कालप्रकर्षात् अनुबध्धन्तीति कालप्रकर्षात् परस्परं निदानादयोऽनुगुणा भवन्ति यदा, तदा विकारा अमिनिर्वर्त्तन्त इति ज्ञेयम् ; यदा परस्परं नानुबध्नन्ति न तदा विकाराभिनिवृत्तिर्भवतीति योजनीयम् । कालप्रकर्षाचानुबन्धो निदानस्य दोषेण तदा भवति, यदा हेतुर्विच्छेदं कृत्वा पुन: सेव्यते, काल एव वा चिरेण समानगुणतया हेतुरूपः प्राप्यते इत्यादि तय॑म् ; अबलीयांसोऽथवाऽनुबध्नन्तीति निदानं यद्यल्पं भवति, तदा स्तोकदोषं करोति ; दोपश्व स्तोकः स्तोकञ्च दृष्यं दृषयतीत्यादि ज्ञेयम् ; यदा चाबलीयांसोऽनुबध्नन्ति, तदा तनवो वा विकारा भवन्ति, भयथोक्तसलिङ्गा वा भवन्तीति योऽयम् ; तर.वोऽल्पमात्राः। अयथोक्तसन्च लिङ्गा इति येन
For Private and Personal Use Only