________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०१
४र्थ अध्यायः
निदानस्थानम्। इह खलु निदानढोषष्यविशेषभ्यो विकाराणां विघातभावाभावभावप्रतिविशेषा भवन्ति। यदा होते त्रयो निदानादिविशेषाः परस्परं नानुवन्तिधः, न तदा विकाराभि
गङ्गाधरः-इइत्यादि। इह मनुष्यदेहे निदानं दोपकोपनं द्रव्यादि, दोपा वातपित्तकफाः, दृष्या रसरक्तादयो धातूपधातुमलधातवः। विकाराणां सर्वेषामेव रोगाणां विघातस्य भावो विकाराणामनुत्पत्तिर्विघातस्याभावो विकाराणां जननं तयोविघातस्य भावाभावयोर्भावस्य प्रतिविशेषाः प्रत्येक विशेपाः। तत्र विकाराणां विघाताभावविशेषा विकारजननं चिरेण विकारजननं तनुविकारजननं सव्व लिङ्गविकारजननश्च। पूर्व वक्ष्यन्ते । विघातभावप्रतिविशेपास्तु तद्विघाताभावविश्य्येयेण वक्ष्यन्ते इति कश्चित्, तन्न, यतो यदा हेत इत्यादिना विकाराणामवश्याभिनिए त्तिविघातवचनस्यासङ्गतिः। तस्मात् विकाराणां विघातश्च भावाभावश्च भावश्च तषां विशेषा विशेषा इति प्रतिविशेषा भवन्ति ।। __ कस्मादित्यत आह-यदा हात इत्यादि। हि यस्मात्, एते निदानादिविशेपा विकाराणां ज्वरादीनां प्रतिरोगं ये निदानदोषदृष्यविशेषास्ते यदा परस्परं नानुवन्नन्ति न तदा तत्तज्ज्वरादिविकाराणामभि
चक्रपाणिः-इहेत्यादो निदानादीनां विशेषाः परस्परानुबन्धित्वादयोऽग्रे वक्ष्यमाणा ज्ञेयाः ; विकाराणां विधातस्य भावोऽभावश्चेति विकारविघातभावाभावी तयोः प्रतिविशेषा विकारविधातभावाभावप्रतिविशेषाः ; तत्र विकाराणां विघाताभावस्य प्रतिविशेषाः-विकाराजननम्, तथा चिरेण च जननम्, तनुविकारजननं वा, असलिङ्गविकारजननं वाग्रे वक्ष्यमाणाः । विघातभावप्रतिविशेपास्तु विकाराजननादिविपय्यंयेणाग्रे वक्ष्यमाणाः। ___ उक्तफक्किकार्थ व्याकरोति-यदेत्यादि। परस्परं नानुबध्नन्ति परस्परं प्रतिकूला भवन्ति, अनुबन्धो ह्यनुकूलेऽभिप्रेतः तत्र तदेव निदानं दोषमनुबन्नाति, यद् भूयः सामान्यात् विरोधेन दोष दूषयति ; दोपस्य दृप्यानुबन्धित्वम्-यत्-दूष्यं व्याधिकरणं सामान्यगुणत्वादिधर्मयोगादविरोधेन दूषयति ; तथा दृष्यस्य च दोषानुबन्धित्वम्-यद्दोषस्य दूषणं प्रति शिथिलत्वसमानगुणत्वादिनानुकूल्येनावस्थानम् ; तथा दोषस्य चेदमेव निदानानुबन्धित्वम्-य-निदानस्य व्याधिजन प्रति समानगुणत्वम् ; समानगुणतया हि दोषो निदानस्य व्याधिजननं प्रति अनुकूलो भवति ; एतद्दाहरणानाञ्च विपर्ययेणाननुबन्धो
* इनः परम् अयथा वा कालप्रकर्षादिति पाठः क्वचित् दृश्यते ।
For Private and Personal Use Only