________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथातः प्रमेहनिदानं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥ १॥ त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा भवन्ति, विकाराश्चापरेऽपरिसंख्येयाः। तत्र यथा त्रिदोषप्रकोपस्तु प्रमेहानभिनिवर्त्तयति, तथानुव्याख्यास्यामः॥ २॥ ___ गङ्गाधरः--रक्तपित्ते पित्तस्याव्यभिचारिख गुल्मे वातस्याव्यभिचारिवञ्चोक्तम्, पारिशेष्यात् श्लेष्मणोऽव्यभिचारित्वस्य वक्तुमुचितखे सव्वेप्रमेहेषु इलेष्माव्यभिचारात् गुल्मनिदानानन्तरं प्रमेह निदानमाह-अथात इत्यादि । सर्व प्राग्वत् व्याखेरयम् ॥१॥ ___ गङ्गाधरः-त्रिदोषेत्यादि। पदार्थाखातत्रयुक्त्या विंशतावेव प्रमेहेषु मिलित. त्रिदोषनिमित्तकखं बोध्यं न तु वातादोकैकदोषजखभेदेन विंशतिः प्रमेहा भव. न्तीति बोध्यम्। प्रमेहचिकित्सिते हि वक्ष्यते-या वातमेहान् प्रति पूर्वमुक्ता वातोल्वणानां विहिता क्रिया सा इत्यादि। ननु त्रिदोषजा एव प्रमेहा विंशतिरेव भवन्ति किमेकैकदोषादिजा न भवन्तीत्यत आह--विकाराश्च इत्यादि । त्रिदोषनिमित्ताः प्रमेहा विंशतिरेव भवन्ति न तु प्रमेहा विंशतिरेव भवन्ति ; परन्त्वपरे एकदोषजादयः प्रमेहविकाराः अपरिसंखेश्या भवन्ति । दोषविकल्पेन वृद्धदोषैर्दूष्यादिसंयोगेनापरिसंखेण्यभेदात् । तत्रेत्यादि । तत्र एकादिदोषप्रकोपेषु अपरिसंखायेषु प्रमेहेषु मध्ये प्रमेहान् विंशतिम् । अथवा तत्र एकादिदोषप्रकोपेषु मध्ये त्रिदोषप्रकोपस्तु ॥२॥
चक्रपाणिः-दक्षाध्वरे गुल्ममनु प्रमेहोत्पादात् प्रमेहाभिधानम्, वचनं हि-'हविःप्राशान्मेहकुष्ठयोर्जन्म” इति। त्रिदोषप्रकोपनिमित्ता इति, सर्वमेहेष्वेव त्रिदोषाः कारणम्, अधिकत्वाच्च श्लैष्मिकादिव्यपदेश इति दर्शयति ; सुश्रुतेऽप्युक्तम्- “सर्व एव मेहाः सर्वदोषजाः” इति। विकारा इति प्रमेहलिङ्गोपद्रवरूपाः ; किंवा अन्येऽपि ये केचन त्रिदोषजास्तेऽपि ग्राह्याः ॥ १॥२॥
For Private and Personal Use Only