________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०६
चरक-संहिता। । प्रमेहनिदानम् मेदसश्च गुणः * समानगुणभूयिष्ठत्वात् स मेदसा मिश्रीभवन् सन्दूषयत्येनद् विकृतत्वात्। स विकृतो दुष्टेन मेदसोपहतः शरीरक्लेदमांसाभ्यां संसर्ग गच्छति। क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात् स मांसे मांसप्रदोषात् पूतिमांसपिड़काः शराविकाक व्छपिकायाः संजनयत्य प्रकृतिभूतत्वात्, शरीर
स्थितन्त्रात् । नन्वेतावता प्रथमत एव प्रामोतु मेदः श्लेष्मा कथं मिश्रीभावमेतीत्यत आह-मेदसश्चेत्यादि। गुणसामान्यन्वेकलकरमित्यत उक्त मेदसश्च गुणैद्रवस्निग्धखादिभिः सह श्लेष्मणो द्रवस्नेहमधुरखादिसमानगुणभूयिष्ठत्वम् । ननु मेदःसमानगुणवेन मेदसा सह श्लेष्मा मिश्रीभवन् किं कुरुते इत्यत आह-स मेदसेत्यादि। एनत् स्वेन मिश्रीयमाणं मेदः सन्दूषयति । कुत इत्यत आहविकृतवादिति श्लेष्मणो विकृतिमापन्नखात्। ननु मिश्रीयमाणमेदोदूषणेन श्लेष्मणः किं भवतीत्यत आह–स इत्यादि। विकृत इति हायनकाधन्यतमैकादिनिदानेन वृद्धः श्लेष्मा दुष्टेन वकृतदुष्टिमता मेदसा उपहतः स्नेहव्वादिगुणवहुलः सन्नपि शुक्रादिगुणेनान्यथाभूतः समुपस्थितखात् तुल्यगुणखाच शरीरक्लेदमांसाभ्यां संसर्ग मिश्रतां गच्छति। ननु कुतः शरीरक्लेदमांसाभ्यां संसर्गमेतीत्यत आह-क्लेदेत्यादि। शरीरक्लेदमांसयोरतिप्रमाणाभिद्धखात् पुरतः समुपस्थितखमिति बोध्यम्। ननु मांसक्लेदयोः दुष्टया किं कुरुते इत्यत आह-स मांसे इत्यादि। स तथाभूतः श्लेष्मा मांसप्रदोषात् स्वेन मांसदूषणात् मांसे पूतिमांसपिड़काः शराविकाद्याः संजनयति । कुत इत्यत आह-अप्रकृतिभूतखादिति हायनकादिना विकृतवात् ।
विसृप्ति विसरणम् ; मेदसश्च गुणानां गुणैः समानगुणभूयिष्ठत्वादित्यादि। मेदसो गुणानां मधुरस्नेहगौरवादीनां श्लेष्मणो गुणैगुरुशीतादिभिर्भू रिसामान्यादित्यर्थः ; समानं हि समानैः मिलतीति भावः। विकृतत्वादितिवचनेन, प्रकृतेन श्लेष्मणा सम्बन्धो मेदोदूषको न भवति, किं तर्हि विकृतेनैवेति दर्शयति ; अतिप्रमाणवृद्धत्वादिति अतिशयितप्रमाणयोगेन वृद्धत्वात्, न गुणातिमात्रेण वृद्धमिह, किं तद्यवयवोपचयेनेत्यर्थः ; पूतिमांसवत्यः पिड़काः पूतिमांसपिड़काः ; अप्रकृतिभूतत्वादिति मांसप्रदोषेण नानाविधशराविकादिजनकत्वशक्तियुक्तत्वादितीह बोद्धव्यम् । ___ + गुणैरित्यत्र गुणानां गुणरिति चक्राभिमतः पाठः ।
For Private and Personal Use Only