________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६६
चरक-संहिता। गुल्मनिदानम् प्रायेण गुल्माधिकारे गुल्मोपद्रवलेन शूलमुक्त्वा गुल्मोक्तस्थानजः पृथक् शूल उक्तः ; तद् यथा-अथास्योपद्रवः शूलः कथञ्चिदुपजायते । शूलं निखानितमिव सुखं येन न वेत्त्यसौ। तत्र विण्मूत्रसंरोधः कृच्छोच्छासः स्थिराङ्गता। तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धता। रोमहर्षोऽरुचिश्छदिभुक्तवृद्धिजडाङ्गता। वाय्वादिभियथासंय' मित्रैर्वा वीक्ष्य योजयेत् । पथ्यात्रिलवणं क्षारमित्यादिचिकित्सावचनानन्तरं-विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते। निदानं तस्य वक्ष्यामि रूपश्च सचिकित्सितम्। वातमूत्रपुरीषाणां निग्रहादतिभोजनात्। अजीर्णाध्यशनायास विरुद्धान्नोपसेवनात् । पानीयपानात् क्षुत्काले विरूदानाञ्च सेवनात्। पिष्टान्नशुष्कमांसानामुपयोगात् तथैव च। एवंविधानां द्रव्याणामन्येपाञ्चोपसेवनात् । वायुः प्रकुपितः कोष्ठे शूलं संजनयेदभृशम् । निरुच्छासो भवेत् तेन वेदनापीड़ितो नरः। शङ्कु स्फोटनवत् तस्य यस्मात् तीवाश्च वेदनाः। शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते। निराहारस्य यस्यैव तीव्र शूलमुदीयते। प्रस्तब्ध. गात्रो भवति कृच्छणोच्छसितीव च। वातमूत्रपुरीषाणि कृच्छण कुरुते नरः। एतैलिङ्गविजानीयाच्छूलं वातसमुद्भवम् ॥१॥ तृष्णा दाहो मदो मूर्छा तीव्र शूलं तथैव च। शीताभिकामो भवति शीतेनैव प्रशाम्यति। एतैलिङ्गविजानीयाच्छूलं पित्तसमुद्भवम् ।। २॥ शूलेनोत्पीड्यमानस्य हल्लास उपजायते। अतीवपूर्णकोष्ठवं तथैव गुरुगात्रता। एतच्छष्मसमुत्थस्य शुलस्योक्तं निदर्शनम् ॥३॥ सर्वाणि दृष्टा रूपाणि निद्दिशेत् सान्निपातिकम्। सन्निपातसमुत्थानमसाध्यं तं विनिदिशेत् । शुलानां लक्षणं प्रोक्तं चिकित्साश्च निबोध मे ॥४॥ इत्यादिना वातजशूलादिचिकित्सा. वचनानन्तरं-रुणद्धि मारुतं श्लेष्मा कुक्षिपावें व्यवस्थितः। स संरुद्धः करोत्याशु ध्मानं गुड़गुड़ायनम् । सूचीभिरिव निस्तोदः कृच्छोच्छ्ासी तदा नरः। नान्नं वाञ्छति नो निद्रामुपेत्यत्तिनिपीडितः। पाश्वशूलः स विज्ञयः कफानिलसमुद्भवः ॥५॥ इत्थत ऊद्ध मस्य चिकित्सामुक्त्वा ; प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः। तदास्य भोजनं भुक्तं सोपष्टम्भं न पच्यते। उच्छृसित्यामशकृता शुलेनाहन्यते मुहुः। नैवासने न शयन तिष्ठन् न लभते सुखम् । कुक्षिशूल इति खाातो वातादामसमुद्भवः॥६॥ अत ऊर्द्ध मस्य चिकित्सामुक्त्वा ; कफपित्तावरुद्धस्तु मारुतो रसमूच्छितः। मपि। अविरुदमिति पुपद्वाणां गुरूणामविरुद्धम् । विभोति गुरुलाचवं विभज्य : तेन,
For Private and Personal Use Only