________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् । १२६५ आत्ययिके कर्मणि वातचिकित्सितं प्रणयेत्। स्नेहस्वेदौ वातहरौ स्नेहोपसंहितञ्च मृदु विरेचनं वस्तींश्चाम्ललवणमधुरांश्च रसान् युक्त्यावचारयेत्। मारुते हुरपशान्ते स्वल्पेनापि यत्नेन शक्योऽन्योऽपि दोषो नियन्तं गुल्मेष्विति ॥ ११॥
भवति चात्र । गुल्मिनामनिलशान्तिरुपायैः सर्वशो विधिवदाचरितव्या। मारुते ह्यवजितेऽन्यमुदीर्ण दोषमल्पमपि कर्म निहन्यात्॥१२॥
खरमाणश्चेत्यादि । गुल्मेषु सर्वेष्वेवात्ययिके क्षिप्राणहरणकारिणि कर्मणि सति खरमाणश्च चिकित्सां कत्तु शीघ्र प्रवर्तमानश्च भिषक विशेष वातजलादिरूपेण गुल्मं प्रभेदमनुपलभ्यमानमुपलब्धिविषयमकुचन वातचिकित्सितं प्रणयेत्। ननु कैरुपक्रमैरित्यत आह–स्नेहेत्यादि। स्नेहोपसंहितं स्नेहद्रव्यघटितं वस्तींश्च स्नेहोपसंहितान् युक्त्या व्याधिपुरुषबलाधनुरूपेण। ननु कस्मात् सव्वेष्वेव गुल्मेषु वातचिकित्सितं प्रणयेदित्यत आह-मारुत इत्यादि । अत्र न हि कश्चिद् वाताहते भवति गुल्म इति पूर्वमुक्तहेतुरुन्नेयः॥११ ___ एतमेवार्थ तद्विद्यव्यवसायाय श्लोकेनाह-भवतीत्यादि। गुल्मिना. मित्यादि। उपायैरुक्तः स्नेहस्वेदादिभिः। सव्वंशः संशोधनसंशमनाहाराचारादिसर्वरूपेण। विधिवदिति तत्तत्स्नेहादिप्रयोगविधानेन । अन्यमुदीर्ण दोषं पित्तादिकम् अल्पमपि कम्मे पित्तादिहरणशीतादिकाल्परूपेण प्रयुक्तमपि निहन्यादित्यर्थः। अत्रेदमवधातव्यम्-सर्वेष्वेव गुल्मेषु वातकोपात् शूलो वर्त्तते, स च केवलवातजे गुल्मे केवलवातज एव सूचीवेधवदादिनानाप्रकारः। पित्तजादौ तु वातजनानाप्रकारोऽपि पित्तादिसम्बन्धेन तीव्रज्वालादिसहित एव भवति, इति शूलोऽपि तत्र वातजादिरूपेण बयपदिष्टो भवति पञ्चविधः सह द्वन्द्वजैरष्टविधश्च कफजे खामशूलस्यान्तर्भावेणाधिकखाभावादिति। एतेन गुल्मातिरिक्तः कश्चिदन्यः शूलरोगो नास्ति यश्च शूल आपातत एव दृश्यते स वातकम्मे विशेषो न च चिरस्थपीड़ाकर एतदभिप्रायेणाचार्थेणानेनान्यः शूलो रोगो नोक्तः। सुश्रुतेनाप्येतदभिइत्यादि। साधारणेनेति संसृष्टोभयदोषप्रत्य नीकेन ; यद वा अन्यदपीति संसर्गे एकदोषोपशमकम्
For Private and Personal Use Only