________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१८.
चरक-संहिता। [ अवाशिरसीमिन्द्रियम् गोसर्गे वदनाद् यस्य स्वेदः प्रच्यवते भृशम् । लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम् ॥ २३ ॥ नोपैति कण्ठमाहारो जिह्वा कण्ठमुपैति च। आयुष्यन्तं गते जन्तोर्बलञ्च परिहीयते ॥ २४ ॥ शिरो विक्षिपते कृच्छ्रान्मुञ्चयित्वा प्रपाणिको । ललाटप्रल तस्वेदो मुमूर्षः श्लथबन्धनः ॥ २५ ॥
तत्र श्लोकः। इमानि लिङ्गानि नरेषु बुद्धिमान् विभावयेतावहितो मुहुर्महुः ।
गङ्गाधरः-गोसर्ग इत्यादि। यस्य लेपज्वरोपतप्तस्य प्रलेपकज्वरवतः गोसग प्रभातकाले बदनात् मुखात् भृशमतिशयं यथा स्यात् तथा स्वेदो घम्मैः प्रच्यवते, तस्य जीवितं दुर्लभम् ॥ २३॥
गङ्गाधरः-नोपैतीत्यादि। जन्तोरायुषि अन्तं शेषं गते सत्याहारो न कण्ठमुपैति जिह्वा च कण्ठमपैति बलञ्च परिहीयते ॥ २४ ॥
गङ्गाधरः-शिर इत्यादि । मुमूर्ष नरः शिरोगतौ स्वप्रपाणिको पाणिद्वयाग्रभागौ शिरस्तः कृच्छात् मुञ्चयिता आनीय शिरो विक्षिपते चालयते, ललाटप्रस्र तस्वेदश्च भवति, श्लथबन्धनः शिथिलसन्धिबन्धनो भवतीति ॥२५॥
गङ्गाधरः-अध्यायाथोपसंहारार्थमाशिषमाह-तत्र श्लोक इत्यादि। इमानीत्यादि। बुद्धिमान् भिषगवहितोऽवधानपूर्वकमिमानि अबाध्याये प्रोक्तानि लिङ्गानि मरणलक्षणानि नरेषु महुम्म हुर्विभावयेत विशेषण
चक्रपाणिः-ग्लास्नोरिति श्रीयमाणस्य। भारमात्मन इति ऊद्ध शरीरम्। पृष्ठमिति
* मुमूर्षुषु इति च पाठः।
For Private and Personal Use Only