________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
इन्द्रियस्थानम् ।
२२१७ दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन् । विजानाति न चेद् दुःखं न स रोगाद विमुच्यते ॥ १८ ॥ मुहुर्हसन् मुहुः श्वेडन् शय्यां पादेन हन्ति यः। उच्चैश्छिद्राणि विमृशन्नातुरो न स जीवति ॥ १६ ॥ यविन्दते पुरा भावः समेतः परमां रतिम्। तैरेव रममाणस्य ग्लास्नोमरणमादिशेत् ॥ २०॥ न बिभर्ति शिरोग्रीवं पृष्ठं वा भारमात्मनः । सहनूं पिण्डमास्यस्थमातुरस्य मुमूर्षतः ॥ २१ ॥ सहसा ज्वरसन्तापस्तृष्णा मूर्छा बलक्षयः। विश्लेषणञ्च सन्धीनां मुमूर्षोरुपजायते ॥ २२ ॥ गङ्गाधरः-दन्तानित्यादि। यो जाग्रत् सन् दन्तान् खादति दन्तकड़कड़िध्वनि करोति। असान्ना अशान्तवचनेन विरुदन् रुदन् हसंश्च सन् चेद यदि दुःखं न विजानाति, स रोगी न रोगाद विमुच्यते ॥१८॥
गङ्गाधरः-मुहुरित्यादि। य आतुरो मुहुहसन सन् मुहुः क्ष्वेडन् विषादं कुचन सन पादेन शय्यां हन्ति शय्यायामाघातं करोति उच्चश्छिद्राण्यूङ्गिगानि च्छिद्राणि कर्णनासादिविवराणि विमृशन् स्पृशन्नर्थात् स्पृशति, स आतुरो न जीवति ॥ १९॥ ___ गङ्गाधरः-यरित्यादि। यैः समेतः सङ्गतैः भावनरः पुरा परमां रति विन्दते तैरेव सङ्गतै रममाणस्य क्रीड़तस्तस्य ग्लास्नोरक्रीड़तोऽहृष्यतो मरणमादिशेत् ॥ २०॥
गङ्गाधरः-न बिभर्तीत्यादि। मुमूषत आतुरस्य शिरोग्रीवम् आत्मनो भारं न विभर्ति, पृष्ठं वा आत्मनो भार न विभर्ति, आस्यस्थं पिण्डमन्नग्रासः सहनु हनुसंहितम् आत्मनो भारं न विभर्ति ॥२१॥
गङ्गाधरः-सहसेत्यादि। मुमूपोनरस्य सहसा ज्वरसन्तापादयः । सन्धीनां विश्लेषणश्च शैथिल्यम् उपजायते ॥ २२ ॥ च्छासं नीत्वा। अपास्यति मुहुरिति मुखमाधिपति। असाम्ना इति उच्चः। छिद्राणीति नासाकर्णाभिस्रोतांसि ॥ १२-१९॥
०१८
For Private and Personal Use Only