________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः। अथातोऽवाकशिरसीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ अवाकशिरा वा जिह्मा वा यस्य वा विशिरा भवेत् । जन्तो रूपप्रतिच्छाया नैनमिच्छेचिकित्सितुम् ॥२॥ जड़ीभूतानि पक्ष्माणि दृष्टिश्चापि न गृह्यते । यस्य जन्तोन तं धीरो भेषजेनोपपादयेत् ॥३॥ यस्य शनानि वानि न समायान्ति शुष्यतः। चक्षुषी चोपदहोते यथा प्रतस्तथैव सः ॥ ४ ॥ गङ्गाधरः--अथ पन्नरूपीयेन्द्रियानन्तरम् । अतश्छायाधिकारात् हेतोरवाक्शिरसीयमिन्द्रियम्, अवाशिरा इति पदार्थमधिकृत्य. कृतमिन्द्रियम् व्याख्यास्यामः॥१॥
गङ्गाधरः-अवाकशिरा इत्यादि। यस्य जन्तो रूपप्रतिच्छाया जलादर्शज्योत्स्नातपादिषु मूर्तिप्रतिविम्बः अवाशिरा ऊद्धपदा स्यादथवा जिला कुटिला स्यादथवा विशिरा विवर्तितमस्तका वा स्यादेनं चिकित्सितुं नेच्छेत् ॥२॥
गङ्गाधरः-जड़ीभूतानीत्यादि। यस्य जन्तोः पक्ष्माणि जड़ीभूतानि मिलितानि भवन्ति न च तैदृष्टि ह्यते तं जन्तु धीरो न भेषजेनोपपादयेत् । सुश्रुतेऽप्युक्तं-मिलन्ति चाक्षिपक्ष्माणि सोऽचिराद याति मृत्यवे ॥ इति ॥३॥
गङ्गाधरः--यस्येत्यादि। यस्य शुष्यतः शोषं गच्छतो जन्तोर्वानि चक्षुषोश्चवारि उपयंधोवानि शूनानि शोफवन्ति भवन्ति न समायान्ति सम्यक्त्वं परस्परं सङ्गततया मिलनं नायान्ति, चक्षुषी च उपदहेाते, स यथा प्रेतस्तथैव स्यादित्यर्थः ॥ ४॥
चक्रपाणिः--उक्तानुक्तपरिग्राहकेऽध्यायद्वये वक्तव्ये छायारिष्टाभिधायकत्वसाधादवाद शिरसीयोऽभिधीयते । अवाकशिरा हात जईपादः । एतच्छायाप्रकरणवक्तव्यमपि शीघ्रमारकत्व
For Private and Personal Use Only