________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१४
चरक-संहिता। [ अवाकशिरसीयमिन्द्रियम् भ्रुवोर्वा यदि वा मूर्द्धि सीमन्तावर्तकान् बहून् । अपूर्वान-ॐ कृतान् व्यक्तान् दृष्टा मरणमादिशेत् ॥५॥ त्राहमेतेन जीवन्ति लक्षणेनातुरा नराः। . अरोगाणां पुनस्त्वेतत् षड़ रात्रं परमुच्यते ॥६॥ +आयम्योत्पाटितान् केशान् यो नरो नावबुध्यते । अनातुरो वा रोगी वा षड़ रात्रं नातिवर्त्तते ॥७॥ यस्य केशा निरभ्यङ्गा दृश्यन्तेऽभ्यक्तसन्निभाः। उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् ॥८॥
गङ्गाधरः-भ्र वोरित्यादि। यस्य जन्तोद॑ वोद्व योलामसु अपूर्वान् पूर्व न ये सीमन्तावत्तकास्तान्, अकृतान् न च कैश्चिन्निमित्तैः कृता ये तान्, व्यक्तान बहून् सीमन्तावर्तकान् दृष्ट्वा यदि वा मूद्धि केशेषु दृष्ट्वा तस्य मरणमादिशेत् । अस्य लक्षणस्य स्वस्थातुरखदिननियममाह-त्राहमित्यादि। एतेन सीमन्तावर्तकलक्षणेन आतुरा नरास्त्राहं जीवन्ति। अरोगाणान्तु षड़. रात्रम् एतज्जीवनं परं परमायुरुच्यते ॥५॥६॥
गङ्गाधरः-आयम्येत्यादि। अनातुरो रोगी वा यो नरः स्वस्य केशान् परेण वा स्वेन वा आयम्य आयतीकृत्य उत्पाटितान नावबुध्यते, स षड़ रात्रं नातिवर्त्तते अतिक्रामति। षड़ रात्रं प्राप्य म्रियते इत्यर्थः ॥७॥ ___ गङ्गाधरः-यस्येत्यादि। यस्य निरभ्यङ्गास्तैलादिस्नेहेनाभ्यङ्गरहिताः केशा अभ्यक्तसन्निभास्तैलादिस्नेहाभ्यक्तकेशतुल्या दृश्यन्ते, धीरस्तं पुरुषमुपरुद्धायुषं क्षीणायुषं शाखा परिवज्जयेत् ॥८॥ ख्यापनार्थमिह शीघ्रमारकरिष्टेष्वपि पठितम् । अत्र ह्यरिष्टानि पहादिमारकाणि वक्तव्यानि । समायान्तीति न परस्परं मिलन्ति । असजानकृतानिति प्रयत्नेनाकृतान् ॥ १-६॥ . चक्रपाणिः-आयस्येति बलादाकृष्य। यद्यपि "मृतस्य केशलोमानि" इत्यादिनैव तदरिष्टमित्युक्तम्, तथापीहातुरस्वस्थविषयप्रतिपादनार्थमभिधानम्, किञ्च तन्त्र 'प्रच्यवेरन्' इति पदेन केशानामनुत्पाटनमुक्तम्, नेह तथेति विशेषः ॥१८॥ ... * असजान् इति पाठान्तरं वर्त्तते । + आयस्य इति चक्रवर्णितः पाठः ।
For Private and Personal Use Only