________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म भध्यायः
इन्द्रियस्थानम्।
२२०५ शुद्धवावमला सुस्निग्धा चाम्भसी शुभा। स्थिरा स्निग्धायता श्लक्ष्णा श्यामा श्वेता च पार्थिवी ॥७ वायवी गर्हिता तासां चतस्रः स्युः शुभोदयाः। वायवी तु विनाशाय क्लेशाय महतेऽपि वा ॥८॥ स्यात् तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता। रक्ता पीता सिता श्यावा हरिता पाण्डराऽसिता॥ तासां याः स्युर्विकाशिन्यः स्निग्धाश्च विपुलाश्च याः।
ताः शुभा रुतमलिनाः संक्लिष्टा-+-श्व'शुभोदयाः ॥६॥ विशुद्धेत्यादि । आग्नेयी च्छाया विशुद्धा निम्मैला चासौ रक्ता चेति । दीप्तामा प्रदीप्ततिः। दर्शनप्रिया द्रष्टः मनोरमा। आम्भसी छायामाह-शुद्धेत्यादि । शुद्धं वैयमिव विमला निम्मेला मुस्निग्धा शुभा शोभना च्छाया आम्भसी। पार्थिवीं छायामाह-स्थिरेत्यादि। स्थिरा चिरावस्थायिनी, स्निग्धा चिक्कणरूपा, आयताइति दीर्घाप्रमाणाभिप्रायेणोक्तं संस्थानवणेप्रमाणां दीर्घखाभावात्, श्लक्ष्णा ईषत् श्लक्ष्णा, श्यामा, श्वेता च व्यस्तसमस्ता पार्थिवीयं छाया ॥७॥
गङ्गाधरः-छायालक्षणान्युक्त्वा तच्छुभाशुभमाह-वायवीत्यादि। तासां पञ्चानां पाश्चभौतिकीनां छायानां मध्ये गहितत्वं विवृणोति-वायवी खित्यादि ॥ ८॥
गङ्गाधरः-तेजस्याश्छायाया विशेषमाह-स्यात् तैजसीत्यादि। सर्वा तैजसी प्रभा, विना हि तैजसतां न प्रभा सम्पद्यते। सा तु तैजसी प्रभा सप्तविधा मता। किं सप्तविधा तदाह-रक्तत्यादि। तासामित्यादि। तासां रक्तादीनां सप्तानां प्रभाणां मध्ये याः प्रभाः विकाशिन्यः आशुप्रसारिण्यः स्निग्धाश्च वायवी गहितेति वायवी रिष्टे प्रायो भवति । यस्य जन्मप्रभृति वायवी स चापि प्रभूतली. शभाग भवतीति एतदेवाह-वायवीत्यादि। विनाशायेति अकस्मात्पन्ना विनाशाय सहजा तु वायवी क्लैशायति य ॥ १८ ॥
चक्रपाणिः-सम्प्रति च्छायाश्रयत्वेन वर्णभेद उक्तः, तत्र वर्णभेदास्तदरिष्टञ्च प्रथमाध्याय एवोतम् । प्रभायास्तु भेदं रिष्टञ्चाह-तैजसीत्यादि। प्रभा च यद्यपि प्रथमाध्याय एव संग्रहेणोक्ता, * स्निग्धा घना इति चक्रवृतः पाठः ।
+ संक्षिप्ता इति वा पाठः ।
For Private and Personal Use Only