SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२०४ चरक-संहिता। ! पत्ररूपीयमिन्द्रियम् संस्थानमाकृतिज्ञेया सुषमा विषमा च या। मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम् ॥ ५॥ प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु। छाया या सा प्रतिच्छाया या च वर्णप्रभाश्रया ॥६॥ खादीनां पञ्च पञ्चानां च्छाया विविधलक्षणाः। नाभसी निर्मला नीला सस्नेहा सप्रमेव च ॥ रुक्षा श्यावारुणा या तु वायवी सा हतप्रभा। विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया ॥ संस्थानं विवृणोति-संस्थानमित्यादि । संस्थानमाकृति म ज्ञ या सा चाकृतिः द्विविधा सुषमा विषमा च। सुषमा अविकृता शोभनरूपा, विषमा समाद्विगता नातिशोभना इत्यर्थः। प्रमाणं विवृणोति-मध्यमित्यादि ॥५॥ ___ गङ्गाधरः-प्रतिच्छायां विवृणोति-प्रतीत्यादि। प्रमाणसंस्थानयोः प्रति सरूपा या च्छाया जलादिषु सा प्रतिच्छाया। एवं जलादिषु वर्णप्रभाश्रया वर्णप्रभयोरपि अनुरूपा या च्छाया सापि प्रतिच्छाया, छायामाह लोके ॥६॥ गङ्गाधरः-खादीनामित्यादि। खादीनां पञ्चानां भूतानां पञ्च च्छायाः संस्थानप्रमाणवर्णप्रभारूपविविधलक्षणाः। तद् यथा-तदाह नाभसीत्यादि। नाभसी च्छाया तु सा या नीला निर्मला सस्नेहा स्निग्धेत्यर्थः। सप्रभेव प्रभावतीव, न हि प्रभा सम्भवत्याकाशस्य किन्तु वैशयात् सप्रमेव । वायवीच्छायामाह-रुक्षेत्यादि। हतप्रभा प्रभाहीना। आग्नेयीं च्छायामाहकथनम् तथा वर्णेन प्रभया च च्छायायाः स्वरूपकथनम्। संस्थानेन प्रमाणेन च सदृशी च्छाया प्रतिच्छाया ज्ञेया। वर्णेन प्रभया च लक्षिता वर्णप्रभाश्रयाऽग्रे वक्ष्यमाणा पञ्चविधा ज्ञेया। भत्र यत्तदोर्नित्याभिसम्बन्धात् सा इत्यध्याहार्यते। तेन संस्थानादिभिर्या च्छाया प्रतिच्छायारूपा, सा यस्य विवर्तते अन्यथा भवति स प्रेत एवेति योजना। प्रतिच्छायाकारभूते संस्थानप्रमाणे एव विवृणोति-संस्थानमित्यादि। आकृति. राकारः। प्रतीत्यादि प्रतिच्छायाविवरणम् । 'छाया वर्णप्रभाश्रया' इत्यादि तु च्छायाविवरणं भविष्यति । प्रतिप्रमाणसंस्थानेत्यत्र प्रति सादृश्ये। तेन प्रमाणसदृशी संस्थानसहशी। प्रमाणसंस्थानसहशतया जलादिषु या च्छाया सा प्रतिच्छाया। छाया तु या पञ्चविधा सा वर्णप्रभाश्रया वर्णप्रभासहचरितोपलभ्यत इत्यर्थः ॥ ५॥६॥ चक्रपाणिः- खादीनामित्यादिना च्छायां विभजते। सप्रभेति दीप्तामा । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy