________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०६ . चरक-संहिता। (पन्न रूपीधमिन्द्रियम्
वर्णमाकामति च्छाया प्रभा छ वर्णप्रकाशिनी। . आसन्ना लक्ष्यते च्छाया प्रकृष्टा भाः प्रकाशते ॥१०॥ नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्वयन्ति तु। . नृणां शुभाशुभोत्पत्तिं काले च्छायाः प्रभाश्रयाः॥ ११॥
विमलाश्च स्युस्ताः तैजस्यः प्रभाः सप्त शुभोदयाः। यास्तु रक्तादयस्तैजस्यः प्रभा रुक्षमलिनाः संक्लिष्टाः उत्पतिताश्च स्युस्ता अशुभोदयाः॥९॥
गङ्गाधरः-प्रभाच्छाययोर्भेदमाह-वणमित्यादि। छाया वर्णमाक्रामति मलिनीकरोति, प्रभा तु वर्णप्रकाशिनी। तद्विशानार्थमाह लक्षणान्तरम् - आसन्नेत्यादि। छाया न दुराल्लक्ष्यते परन्खासन्ना नैकटयमापन्ना च लक्ष्यते। भाः प्रभा तु प्रकृष्टा- विपकर्षेण दूरादपि लक्ष्यते। इति च्छायामभयोभैदः॥१०॥ ' गङ्गाधरः-तत्र प्रभागतच्छायाया अशुभशुभखमाह-नाच्छाय इत्यादि । कश्चित् पुरुषो नाच्छायश्छायारहितोऽस्ति, न वा अपभः प्रभारहितोऽस्ति । तस्मात् सश्छिायाः सर्वाश्च प्रभा न नृणां शुभं. वा अशुभं वा चिह्वयन्ति परन्तु विशेषाश्छायानां प्रभाणाश्च विशेषाः प्रभेदाः काश्चिच्छायाः काच प्रभा नृणां शुभाशुभोत्पत्तिं काले कालपरिणामे चिह्नयन्ति, चिह्नीभूता ज्ञापयन्ति, मुतरां यदा प्रभाविशेषा नृणां शुभाशुभोत्पत्तिं चिह्नयन्ति, तदा ते प्रभाविशेषा स्वरूपान्यत्वेन च्छायाभिधैव भवन्तीति। प्रभाश्रयापि च्छाया न अतिरिक्ता प्रभा शुभाशुभोत्पत्तिचिहकदशायामिति भावः ॥११॥
बयापि तत्र छायाश्रयत्वेन न वर्णभेदा उक्ताः, तत्र वर्णभेदास्तदरिष्टच प्रथमाध्याये संग्रहणोता. तथापि छायाश्रयत्वेन न तन्त्र सूचिता इति ज्ञेयम् । अशुभोदया इत्यकमाइत्पादे मरणोदया, सहजोत्पादे तु बहुखरूपा अशुभोदया इति ज्ञयम् ॥९॥ . * चक्रपाणिः-प्रभाच्छाययोदुर्लक्षणत्वेन भेदक लक्षणमाह- वर्णमिति । वर्णमाक्रामतीति व्यापाफ्रान्तो वर्णो नोपलभ्यते सम्मक। भासमा लक्ष्यते च्छाया। यथा-चित्रगता छाया प्रत्यासाब वक्ष्यते। भाः प्रकृष्टा प्रकाशते यथा मणिमौक्तिकादीनां प्रभा दूगडुपलभ्यत इत्यर्थः ॥१०॥
चक्रपाणिः-विशेषा इति च्छायाप्रभयोः शुभाशुभरूपविशेषाः। चिह्नयन्तीति गमयन्ति ।
* भास्तु इति चक्रतः पाठः ।
For Private and Personal Use Only