________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६४
६ष्ठ अध्यायः] इन्द्रियस्थानम् ।
विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम् । जायन्ते दारुणा रोगाः शीघ्र शीघ्र स हन्यते ॥ २०॥ बलं विज्ञानमारोग्यं ग्रहणी मांससारिणी छ ।
एतानि यस्य हीयन्तै क्षिप्रक्षिप्रंस हीयते ॥ २१ ॥ गङ्गाधरः-विरुद्धत्यादि। यस्य विरुद्धयोनयो योनीनां परस्परं विरोधिता येषां ते विरुद्धयोनयो रोगाः। ते च वातपित्तश्लेष्मजसान्निपातिकादयो रोगा भवन्ति, न च ते मारकाऽकस्मादित्यत आह-विरुद्धोपक्रमा भृशमिति। योनीनां परस्परविरुद्धखेऽपि न क्षतिर्यदि तेषां रोगाणामपि दोषदृष्यतो विरुद्ध उपक्रमः स्यात् । यथाधोगरक्तपित्तं वातानुगपित्तज, विरेकसाध्यं पित्तं तच्च नागरक्तपित्त हितमिति उभयगं वा। तत्र ते यदि दारुणाः कष्टदाः शीघ्र जायन्ते तदा तै रोगैः स शीघ्र हन्यते । इत्यनुक्तसर्वरोगारिष्टं व्याख्यातम् ॥ २० ॥
गङ्गाधरः-वलमित्यादि। मांससारिणी ग्रहणी मांससनिविष्टा ग्रहणी नाड़ी अर्थाजठराग्निः। एतानि यस्य हीयन्ते तस्य जीवितं मृत्युहेरतीति । एतेन स्मृतिमेधाप्रकृतिबलपरीक्षा व्याख्याता। इति व्याधीनां रूपतः परीक्षाः व्याख्याताः। सुश्रुतेऽप्यवारणीयेऽध्याये यथा--उपद्रवस्तु ये जष्टा व्याधयो यान्त्यवार्यताम् । रसायनाद्विना वत्स तान् शृण्वेकमना मम॥ वातव्याधिः प्रमेहश्च कुष्ठमी भगन्दरः। अश्मरी मूढगर्भश्च तथैवोदरमष्टमम्। अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः॥ प्राणमांसक्षयश्वास-तृष्णाशोषव मिज्वरैः। मूर्छातिसारहिकाभिः पुनश्चैतैरुपद्रुताः । वजनीया विशेषण भिषजा सिद्धिमिच्छता ॥ शून सुप्तवचं भग्नं कम्पाध्माननिपीड़ितम्। रुजार्तिमन्तश्च नरं वातव्याधिर्विनाशयेत् ॥ यथोक्तोपद्रवारिष्टमतिपत्र तमेव वा। पिड़कापीड़ित गाई प्रमेहो हन्ति मानवम् ॥ प्रभिन्नं प्रत्र ताङ्गश्च रक्तनेत्रं हतस्वरम् । पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ॥ तृष्णारोचकशूलार्त्तमतिपत्र तशोणितम् । शोफातिसारसंयुक्तमझेव्याधिविनाशयेत् ॥ वातमूत्रपुरीपाणि क्रिमयः शुक्रमेव च । भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ॥प्रशूननाभिषणं बद्ध
चक्रपाणिः-आयच्छते अङ्गानि क्षिपति। विरुद्धयोनय इति परस्परविरुद्धधर्माणः । विरुद्धयोनयोऽपि स्वल्पतयैकभूततया वा अविरुद्धोपक्रमा अपि भवन्तीत्यत उक्तं विरुद्धोपक्रमा इत्ति । ___* मांसंशोणितमिति चक्रः ।
For Private and Personal Use Only