________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१६८
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये । दुर्बलस्य विशेषेण नरस्यान्ताय जायते ॥ १६ ॥ पाण्डुरश्च कृशोऽत्यर्थं तृष्णयातिपरिप्लुतः । डम्बरी कुपितोच्छ्रासः प्रत्याख्येयो विजानता ॥ १७ ॥ हनुमन्याग्रहस्तृष्णा बलहासोऽतिमात्रया । प्राणाश्चोरसि वर्त्तन्ते यस्य तं परिवर्जयेत् ॥ १८ ॥ व्यायच्छते ताम्यति च शर्म किञ्चिन्न बिन्दति । नीमांसबलाहारो मुमूषुरचिरान्नरः ॥ १६ ॥
| कतमानिशरीरीयमिन्द्रियम्
गङ्गाधरः - ज्वरेत्यादि । यस्य शोफान्ते पूर्व्वं शोथो भूला निवृत्तो ज्वरातिसारौ च युगपज्जायेते तस्य नरस्यान्ताय नाशाय व्योध्यौ । स यदि दुर्व्वलस्तदा किमत्र वचः । नरस्य तयोः क्षये पूर्वं ज्वरातिसारौ द्वावेव भूला निवृत्तौ श्वयथुश्चान्ताय जायते भवति, दुर्व्वलस्य तस्य विशेषेणाचिरादेवान्ताय जायते इत्यर्थः ॥ १६ ॥
गङ्गाधरः - पाण्डुर इत्यादि । पाण्डुरः पाण्डुरोगवान् योऽत्यर्थं कृशस्तृष्णया चात्यर्थं परिप्लुतः । डम्बरी आडम्बरवान् स्तब्धाक्षः सन्नवलोकयति संरम्भेण वा पश्यति । कुपितोच्छ्रासः श्वास रोगवान् प्रत्याख्येयस्त्याज्यः ॥ १७ ॥
For Private and Personal Use Only
गङ्गाधरः - हनुमन्येत्यादि । यस्य हनुग्रहो मन्याग्रहस्तृष्णा तथातिमात्रया बलहासः प्राणा उरसि वर्त्तन्ते इत्येवं लक्ष्यते, तेन प्राणनिर्गमोन्मुखखमाख्यायते, तं परिवर्जयेत् ॥ १८ ॥
गङ्गाधरः- व्यायच्छते इत्यादि । यो व्यायच्छते व्यायामं कुरुते तेन व्यायामेन ताम्यति ग्लायति न किञ्चित् शम् सुखं बिन्दति क्षीणमांसादिश्च भवति, स नरोऽचिरान्मुमृषु भवति ॥ १९ ॥
एव । डम्बरी स्तब्धाभावलोकी, किंवा डम्बरी संरम्भवान् । कुपित उच्छासो यस्य स कुपितोच्छ्रासः ॥ ११–१७ ॥
चक्रपाणिः - प्राणाश्चोरसि वर्त्तन्त इति वायव उरसि प्रकुपिता वहन्ति । यदि तु जीवितं प्राणा इहोच्यते, तदा तस्योरसि वर्त्तन्ते मृत एव पुरुषो भवति । ततश्च तस्मिन् काले रिष्टेनासाध्यतां ज्ञात्वा रोगिपरित्यागे वैद्यस्याप्रसिद्धिर्भवत्येवेति कृत्वा प्राणा वायव इहोच्यन्ते इति ब्र ुवते । वयन्तु ब्रूमः सद्योमरणीयारिष्टवदेतत् प्रत्यासन्नमृत्युगमकमेव भविष्यतीति ॥ १८ ॥