________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
इन्द्रियस्थानम्।
२१६७ श्वयर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके। सीदतश्चाप्युभे जङ्घ तं भिषक परिवर्जयेत् ॥ ११ ॥ शूनहस्तं शूनपादं शूनगुह्योदरं नरम् । हीनवर्णबलाहारमौषधोपपादयेत् ॥ १२॥ उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः । सततं च्यवते यस्य दूरात् तं परिवर्जयेत् ॥ १३ ॥ हृष्टरोमा सान्द्रमूत्रः शुष्क-र-कासज्वरादितः । क्षीणमांसो नरो दूराद् वज्यो वैद्य न जानता ॥ १४ ॥ त्रयः प्रकुपिता यस्य दोषाः कोष्ठेऽभिलनिताः +। कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम् ॥ १५ ॥ गङ्गाधरः---श्वयथ्यस्येत्यादि। यस्य पादस्थः श्वयथः पिण्डिके जान्वधो. मांसपिण्डद्वयश्च सस्ते अधस्ताल्लम्वितं भवति, उभे द्वे च जङ्घ सीदतोऽवसन्ने भवतस्तं भिषक् परिवज्जयेत् ॥११॥
गङ्गाधरः-शूनेत्यादि। यस्य हस्ते शोथः पादै च शोथः गुह्योदरयोश्च शोथः, हीनाश्च वलवर्णाहारास्तमौषधैौपपादयेत्, स मरिष्यतीति भावः ॥१२॥
गङ्गाधरः-उर इत्यादि। यस्य उरसि वक्षसि युक्तो लग्नो बहुश्लेष्मा उत्कासादिना तस्मादुरसः सततं सलोहितो नीलो वा सलोहितः पीतो वा च्यवते, तं दुरात् परिवर्जयेत् ॥१३॥ गङ्गाधरः-हृष्टरोमेत्यादि। सान्द्रमूत्रो घनं मूत्रं यस्य सः ॥ १४ ॥
गङ्गाधरः-त्रय इत्यादि। कोष्ठे मलमूत्ररुधिराद्याशये हृदुण्डुकादिषु च । अकृशस्य बलवतो वा। न तस्य चिकित्सितमस्तीति भावः ॥१५॥
चक्रपाणिः-पिण्डिके इति जङ्गमांसपिण्डिके। उरोयुक्त इति उरोभवत्वेन रोगोऽनुमीयमानः। कष्टाभिलक्षिता इति दुरुपक्रमत्वेन ज्ञाताः। किंवा कोष्ठाभिलक्षिता इति पाठः, स व्यक्त
* शून इति पाठान्तरम्। + कष्टाभिलक्षिता इति च
For Private and Personal Use Only