________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६६
चरक-संहिता। कितमानिशरीरीयमिन्द्रियम् ज्वरः पौवालिको यस्य शुष्ककासश्च दारुणः। बलमांसविहीनस्य यथा प्रतस्तथैव सः ॥७॥ ज्वरो यस्यापराह्न तु श्लेष्मकासश्च दारुणः। बलमांसविहीनस्य यथा प्रेतस्तथैव सः॥८॥ यस्य मूत्रं पुरीषञ्च प्रथितं संप्रवर्तते । निरुप्मणो जठरिणः श्वसतो न स जीवति ॥६॥ श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति ।
ज्ञातिसङ्घ स संक्लश्य तेन रोगेण हन्यते ॥ १० ॥ गङ्गाधरः-ज्वर इत्यादि। पोचाह्निको दिवापूर्वदशदण्डाभ्यन्तरे ज्वरस्य भोगावशेषस्तत्र कफकाले । दारुणः कष्टदः। शुष्ककासो वातकर्म । इति अचिन्त्यलक्षणम् । बलमांसहीनस्य मरणाय, बलमांसवतस्तु कष्टेन जीवनमिति भावः। एवं ज्वरो यस्यापराह्न खिति व्याख्येयम् ॥७॥८॥
गङ्गाधरः-यस्येत्यादि। मूत्रं ग्रथितं ग्रन्थिलवत्, पुरीषश्च ग्रथितं यस्य श्वसतः श्वासं कुर्वतः, निरुष्मणो मन्दाग्नेर्जठरिण उदररोगिणः संप्रवर्तते, स न जीवति ॥९॥
गङ्गाधरः-श्वयथुरित्यादि। यस्य कुक्षिस्थ उदरगतः श्वयथुः क्रमेण हस्तपादं विसर्पति, तेन श्वयथरोगेण स चिरकालं तदातः सन् नानाविधपरिचर्याभितिसङ्घ संक्लेश्य क्लेशं दत्त्वा तेन रोगेण हन्यते म्रियते इत्यर्थः ॥१०॥ रुजाकर्तृत्वोपदर्शनार्थम् । इहालभ्य एव जीवितै 'दुर्लभम्' इत्युक्तम् । यदाह-सर्वथालभ्यं दुर्लभमिति। अन्ये तु 'दुर्लभमाषया' अनियतं मरणे रिष्टमिति ब्रवते, एवं "संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते' इत्यादावपि व्याख्यानयन्ति। अनियतरिष्टता स्वरसतस्त्वस्माभिः पुष्पितक एवोक्ता। "संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते" इत्यस्य चार्थे यस्यश्यावनिमित्तीये वक्ष्यामः ॥४-८॥
चक्रपाणिः-मूत्रं प्रथितमिति घनीभूतं ज्ञेयम्। ज्ञातिसङ्घ स संक्ले श्येतिवचनेन चिरमस्य रोगोऽनुवर्तते। ततः प्रत्याशया ज्ञातयस्तत्प्रतीकारार्थे क्लिश्यन्ति, ततस्तु म्रियत एव न प्रतिकत्तुं पार्यते ॥ ९॥१०॥
For Private and Personal Use Only