________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
इन्द्रियस्थानम् ।
२१६५ बलञ्च हीयते शीघ्र तृष्णा चातिप्रवर्द्धते । जायते हृदि शूलञ्च तं भिषक् परिवर्जयेत् ॥ ३॥ हिका गम्भीरजा यस्य शोणितञ्चातिसार्यते। न तस्मा औषधं दद्यात् स्मरन्नात्रेयशासनम् ॥ ४॥
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम् । व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम् ॥ ५॥ आनाहश्चातिसारश्च कर्षितं यमुभौ भृशम् । विशतो विजहत्येनं प्राणा नातिचिरान्नरम् ॥ ६॥
स्थितमपि न जीयंति, बलश्च हीयते, शीघ्र तृष्णा चातिप्रवर्द्धते, हृदि च शूलं जायते, तं नरं भिषक् परिवर्जयेत् ॥३॥
गङ्गाधरः-हिक्के त्यादि। गम्भीरजा नाभिप्रत्ता गम्भीरा नाम हिक्का यस्य तस्यैव शोणितातिसारश्चेत् ॥४॥
गङ्गाधरः-आनाह इत्यादि। आनाहो विड़ विबन्धव्याधिः स्वनामाख्यातस्तत्रातिसारश्चेत् तदा एतौ द्वौ मिथो विरुद्धौ यं दुर्बलं व्याधितं नरं प्रविशतस्तस्य दुर्लभं जीवितं स्यात्, न तु प्रबलस्य नापि स्वस्थस्य ॥५॥
गङ्गाधरः-एवमानाहश्चेत्यादि व्याख्येयम्। कर्षितं व्याधिभिर्वा धनबान्धवक्षयोपवासादितो वा, इति पूर्वस्माद्भदः। नातिचिरादिति शीघ्रमित्यर्थः॥६॥
अरिष्टेन समं मरणसूचकतया साधादरिष्टानामपि व्याधीनामभिधानमिह व्रते। यदि एत एवासाध्यव्याधयो मरणपूर्वरूपतया रिष्टरूपा एव भवन्ति, तथापि न कदाचित् क्षतिः । तेनारिष्टाधिकारादरिष्टत्वमेव एतदध्यायवाच्यानामपि व्याधीनामिच्छामः ॥ १-३॥
चक्रपाणिः-गम्भीरजा इनि गभ्भीरनाभ्यादिदेशजा न तु गम्भीरा, तस्याः स्वरूपासाध्यत्वेनोक्तत्वात् । 'शोणितञ्चातिसार्यते' इति विशेषणमनर्थकं स्यात्। व्याधितमित्यनेन हि रक्तातिसारारिष्टव्याधिगृहीतमिति दर्शयति । आनाहातिसारयो रोगत्वेनापि 'रोग'विशेषणं विशेषण
For Private and Personal Use Only