________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ कतमानि शरीराणि व्याधिमन्ति महामुने । यानि वैद्यः परिहरेदयेषु कर्म न सिध्यति ॥ इत्यग्निवेशेन गुरुः प्रश्नं पृष्टः पुनर्वसुः।। आचचदे यथा तस्मै भगवांस्तन्निबोधत ॥२॥ यस्य वै भाषमाणस्य रुजत्यूद्ध मुरो भृशम् ।
अन्नं वा च्यवतेऽपक्क स्थितं वापि न जीर्य्यति ॥ गङ्गाधरः- अथ पूर्वरूपीयेन्द्रियव्याख्यानन्तरं स्थानविशेष व्याधिविशेषतोऽरिष्टं व्याख्यातु कतमानिशरीरीयमिन्द्रियं व्याख्यायते-अथात इत्यादि। कतमानि शरीराणि व्याधिमन्तीत्यादि। श्लोकार्थ कतमानि शरीराण्यधिकृत्य कृतमित्यर्थे कतमानिशरीरीयमिति ॥१॥
गङ्गाधरः-कतमानीत्यादि। हे महामुने गुरो ! येषु व्याधिमत्सु शरीरेषु चिकित्सितं कर्म न सिध्यति, तानि कतमानि व्याधिमन्ति शरीराणि भवन्ति, यानि शरीराणि व्याधिमन्ति वैद्यः परिहरेदरिष्टवान्न चिकित्सेदिति प्रश्नमग्निवेशेन शिष्येण पृष्टो भगवान् पुनर्वसु रुस्तस्मै अग्निवेशाय यथा आचचक्षे तनिबोधत ॥२॥
गङ्गाधरः-यस्येत्यादि। भाषमाणस्य वाक्यं वदत एव यस्य ऊर्द्ध मुरो वक्षस ऊर्द्ध देशो भृशं रुजति व्यथते, न खभाषमाणस्य तं भिषक परिवर्जयेत् । यस्य भुक्तमपकमन्नं च्यवते गुदात् निगच्छति, अथवा यस्य भुक्तमन्नमुदरे
चक्रपाणिः-सम्प्रति पूर्वरूपीयानन्तरं भाविव्याध्याश्रयारिष्टाभिधानार्थे कतमानिशरीरीयमिन्द्रियमुच्यते । कतमानि शरीराण्यधिकृत्य कृतं कतमानिशरीरीयम् । प्रश्नमिति पृच्छाविषयम् । ऊर्द्ध मुर इति. उरऊभाग इत्यर्थः । एतदध्यायप्रतिपाद्यानाञ्चासाध्यस्याधीनां मरणसूचकेन
For Private and Personal Use Only