________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२००
चरक-संहिता। कितमानिशरीरीयमिन्द्रियम् मूत्र रुजादितम् । अश्मरी क्षपयत्याशु सिकता शर्करान्विता॥ गर्भकोषपरासङ्गो मकल्लो योनिसंवृतिः । हन्यात स्त्रियं मूढगर्भो यथोक्ताश्चाप्युपद्रवाः॥ पार्श्वभङ्गान्न विद्वेष-शोफातिसारपीड़ितम्। विरिक्त पूर्यमाणश्च वर्जयेदुदरादितम् ।। यस्ताम्यति विसंशश्च शेते निपतितोऽपि वा। शीतादितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः॥यो हृष्टरोमा रक्ताक्षो हदि सङ्घातशूलवान। नित्यं वक्त ण चोच्छुस्यात्तं ज्वरो हन्ति मानवम् ॥ हिक्कावासपिपासात्तं मूढ़ विभ्रान्तलोचनम्। सन्ततोच्छासिनं क्षीणं नरंक्षपयति ज्वरः॥ आविलासं प्रताम्यन्तं निद्रायुक्तमतीव च। क्षीणशोणितमांसश्च नरं क्षपयति ज्वरः॥ श्वासशूलपिपासात्तं क्षीणं ज्वरनिपीड़ितम्। विशेषेण नरं वृद्धमतीसारो विनाशयेत् ॥ शुक्लाक्षमनद्वेष्टारमूद्ध श्वासनिपीड़ितम्। कृच्छण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ॥ श्वासशूलपिपासान्न-विद्वेषग्रन्थिमूढ़ताः। भवन्ति दुर्बलखञ्च गुल्मिनो मृत्युमेष्यतः॥ आध्मानं बहु निष्यन्दं छईि हिक्कातृड़ाईतम्। रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ॥ पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च मानवः। पाण्डसंघातदर्शी च पाण्डुरोगी विनश्यति ॥ लोहितं छद्देयद यस्तु बहुशो लोहितेक्षणः । रक्तानाश्च दिशां द्रष्टा रक्तपित्ती विनश्यति ॥ अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः। जागरिष्णुरसन्देहमुन्मादेन विनश्यति ॥ बहुशोऽपस्मरन्तन्तु पक्षीणं चलितभ्र वम्। नत्राभ्याश्च विकुणिमपस्मारो विनाशयेत् ॥ इति । तथा विपरीताविपरीतव्रणविज्ञानीयेऽपि। गन्धवर्णरसादीनां विशेषाणां समासतः। वैकृतं यत् तदाचष्टे व्रणिनः पकलक्षणम् ॥ कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः। लोहगन्धस्तु रक्तन व्यामिश्रः सान्निपातिकः ॥ लाजातसीतैलसमाः किञ्चिद्वितास्तु गन्धतः। शे याः प्रकृतिगन्धाः स्युरतोऽन्यद गन्धवैकृतम् । मद्यागुज्यिसुमनः पद्मचन्दनचम्पकैः। सगन्धा दिव्यगन्धा वा मुमूर्षणां व्रणाः स्मृताः । श्ववाजिमूषिकध्वाङ्ग-पूतिवल्लूरमत्कुणैः । सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गहिताः। ध्यामकुङ्कु मकङ्गुष्ठ-सवर्णाः पित्तकोपतः। न दह्यन्ते न चूष्यन्ते भिषक तान परिवज्जयेत् । कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः। दृयन्ते च विदह्यन्ते भिषक् तान् परिवज्जयेत् । कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः। स्वल्पामपि न कुर्वन्ति रुजं तान परिवर्जयेत् । श्वेडन्ति घुघुरायन्ते ज्वलन्तीव च ये व्रणाः। बङमांसस्थाश्च पवनं सशब्दं विसृजन्ति ये। ये च मम्मैस्वसम्भूता भवन्त्यत्यर्थ वेदनाः । दह्यन्ते चान्तरत्यर्थ वहिः शीताश्च ये व्रणाः । दह्यन्ते वहिरत्यर्थं भवन्त्यन्तश्च
For Private and Personal Use Only