________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ]
इन्द्रियस्थानम् ।
तत्र पञ्चविधं पूर्व्वमफलं भिषगादिशेत् । दिवास्वप्नमतिह्रस्वमतिदीर्घं तथैव च ॥ ३३ ॥ दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो भवेत् । न स्वपेद्यः पुनर्दृष्टा स सद्यः स्यान्महाफलः ॥ ३४ ॥ कल्याणमपि स्वप्नं दृष्ट्रा तत्रैव यः पुनः ।
For Private and Personal Use Only
२१६१
पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम् ॥ ३५ ॥ क्लृप्तीक्रियते पूर्व्वं तत् । भाविकं भविष्यन्तं षष्ठम् । दोषजं वातादिदोषभवं सप्तमं विदुः । इति सप्तविधं स्वप्नं विदुः ॥ ३२ ॥
गङ्गाधरः- तत्रेत्यादि । तत्र पञ्चविधं पूर्व दृष्यं श्रुतम् अनुभूतं प्रार्थितं कल्पितञ्चेति पञ्चविधमफलं भिगादिशेत् । शेषौ भाविकदोषजो सफलौ । तत्राप्याह--- दिवेत्यादि । भाविकं वा दोषजं वा दिवा यदि पश्यति तदाप्यफलं विदुः । यदि वा भाविकं दोषजं वा स्वप्नं रात्रावतिहस्वं स्वल्परूपेण पश्यति तदा तमप्यफलं विदुः । यदि वातिदीर्घ रात्रौ भाविक दोषजं वा स्वप्नं पश्यति तदा तमप्यफलं विदुरित्यर्थस्तथैवेत्यस्य ॥ ३३ ॥
गङ्गाधरः- नन्वेभ्योऽतिरिक्ताः सव्वं फलवन्तः सन्तु न कथं सर्व्वदा फलन्ति इत्यत आह- दृष्ट इत्यादि । प्रथमरात्रे प्रहररात्राभ्यन्तरे सोऽल्पफलश्चिरफलश्व | स्वप्ने तु प्रथमे यामे वत्सरेण फलं लभेत् इति तत्रान्तरवचनात् । एतेन द्वितीय तृतीय - चतुर्थयामेवृत्तरोत्तरं फलाधिक्यं स्वल्पकालश्च ख्यापितः । तत्रापि स्वल्पफलखमाह-न स्वपेदित्यादि । यः स्वप्नं दृष्ट्वा पुनर्न स्वपेत् न निद्रां गच्छेत् स सद्यस्त्रिरात्रेण महाफलः स्यात् महाफलप्राप्तः स्यात् । एतेन स्वप्नं शुभं वाशुभं दृष्ट्वा पुनर्निद्रागमे स्वल्पफलः चिरेण फलहा निर्वा भवतीति ख्यापितम् ।। ३४ ।।
गङ्गाधरः- ननु पुनरपि निद्रागतो यदि पूर्वस्वप्नविरोधस्वप्नं पश्येत्, तदा किं स्यादित्यत आह- अकल्याणमपीत्यादि । यद्यकल्याणं कल्याणं चक्रपाणिः -पूर्वी दृष्टादिकल्पितान्तं पञ्चविधस्वप्नमफलं फलशुन्यत्वादिति पारिशेष्याद् भाविकं दोषजन्यञ्च सफलम् । तत्र भाविकं शुभाशुभरूपतया शुभाशुभफलप्रदम् । यत् तु दोषजन्यं तद् दोषप्रकोपजन्यव्याधिरूप फलसूचकतया सफलम् | अफलस्वप्नान्तरमाह-- दिवास्वप्नमित्यादि । दिवाहष्टं सबै स्वप्नम् तथा रात्रिञ्चातिदीर्घमतिस्त्रच स्वप्नमफलं