________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६०
चरक-संहिता। पूर्वपीयमिन्द्रियम् नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा। इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा ॥ ३१ ॥ दृष्टं श्रुतानुभूतञ्च प्रार्थितं कल्पितं तथा।
भाविक दोषजञ्चैव स्वनं सप्तविधं विदुः॥ ३२॥ गङ्गाधरः--ननु कीदृक् पुरुषो दारुणान् स्वमान् पश्यति न च कथं सव्वः पश्यति, न वा कथं सर्वदैव निद्रायां पश्यतीत्यत आह-नातीत्यादि । नातिप्रसुप्तोऽनतिप्रसुप्तः, विभाषया नोऽनादेशविधानात्। अनतिप्रसुप्तस्तु सुषुप्तिवज्ज या निद्रा तन्निद्रागतः। तादृशस्तु तैजसाहकारयोगेणात्मा भवति। सुषुप्तस्तु तामसाहकारयोगेण भवति । ईदृशस्वात्मा न त्रिदोषपूर्णमनोवहस्रोतस्वं विना दारुणान् स्वमान पश्यति। परन्तु तैजसाहकारयोगमात्रेण स्वमान् पश्यति न दारुणान् पश्यति । त्रिदोषपूर्णमनोवहस्रोतास्तु दारुणान् स्वमान् पश्यति, न तु सर्वः पुरुषः। यदा तामसाहङ्कारयोगः स्यात् तदा न कञ्चन स्वप्नं पश्यति। नन्वेवमपि दारुणान् स्वमान् दृष्ट्वापि जीवन अस्तीति दृश्यते इत्यत आहसफलानफलांस्तथेति। एतान दारुणान् स्वमान् सफलान् अफलांश्च पश्यति । योऽफलान् पश्यति स जीवति, यः सफलान् स म्रियते एवेति भावः। ननु कस्मात् स्वप्नाः सफलाश्चाफलाश्च भवन्त्येकविधखादात्मन इत्यत आहइन्द्रियेशेनेत्यादि। मनसा इन्द्रियेशेन दशेन्द्रियप्रेरकेण मनसानेकधा स्वमान् पुरुषः पश्यति ॥ ३१॥
गङ्गाधरः-ननु कीदृशा अनेकधा स्वमा इत्यत आह-दृष्टमित्यादि । श्रुतथानुभूतश्च तत्तथा। एक स्वप्नं दृष्टं विदुः। द्वितीयं श्रुतम् । तृतीयमनुभूतं मनसा चिन्तितं तकितं व्याख्यातमित्यादिकम् । चतुर्थ प्रार्थितं पूर्व मनसा वाचा वा यद याचितम् । पञ्चमं कल्पितं मनसाऽप्राप्याप्राप्यत्वादिरूपेण यन्मनसा त्रिभिरपीत्यर्थः। तेन पृथक् चापि दोषैः पूरणं ज्ञेयम् । नातिप्रसुप्त इति नातिनिद्राभिभूत इत्यर्थः। हन्द्रियेशेनेति इन्द्रियप्रेरकेण ॥ ३०॥३१॥
चक्रपाणिः-स्वप्नानां फलवत्वाञ्चोक्तं स्वप्नप्रकारानाह---दृष्टमित्यादि। दृष्टमिति चक्षषा अनुभूतन्तु शेषेन्द्रियज्ञातम् । कल्पितमिति मनसा भावितम्। प्रार्थितं याच्याविषयकृतम् भाविकमिति भाविशुभाशुभफलसूचकम् । दोषजमिति उत्वणवातादिदोषजन्यम् ॥ ३२ ॥
For Private and Personal Use Only