________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः |
इन्द्रियस्थानम् ।
कषायिणाम सोम्यानां नग्नानां दण्डधारिणाम् । कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम् ॥ २७ ॥ कृष्णा पापायनाचारा दीर्घकेशनखस्तनी । विरागमाल्यवना स्वप्ने कालनिशा मता ॥ २८ ॥ इत्येते दारुणाः स्वना रोगी यैर्याति पञ्चताम् ।
२९८६
रोगः संशयं गत्वा कश्चिदेव प्रमुच्यते ॥ २६ ॥ मनोवहानां पूर्णत्वाद दोषैरतिबलैस्त्रिभिः । स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे ॥ ३० ॥
रक्तपुष्पमालावान् सन्नुच्चैहसन दिग्वासा नमः सन् दक्षिणां दिशं याति, अथवा तथाविधः सन् कपियुक्तेन वानरसहयोगेन दारुणामटवीं प्रयाति, अथवा कषायिणामसौम्यादीनाञ्च दर्शनम् स्वप्ने नेच्छन्ति । एषां स्वप्ने दर्शनमशुभकरत्वान्नेच्छन्ति तज्ज्ञा इति भावः ॥ २७ ॥
गङ्गाधरः- कृष्णा स्त्री पापाद्यनाचारा वा स्त्री दीर्घकेशादिमती स्त्री | वरागमाल्यवसना रक्तमाल्यवसना स्त्री च स्वप्ने दृष्टा सती कालनिशा कालरात्रियमभगिनी मता मारिका ज्ञ ेया ॥ २८॥
गङ्गाधरः -- एषां स्वप्नानामाशिषमाह -- इत्येते इत्यादि । एषां दारुणलं रोगिणां मारकखमरोगाणां प्रायेण मारकत्वञ्च । कस्यचिबहुशेन मोचकखमिति भावः ॥ २९ ॥
For Private and Personal Use Only
गङ्गाधरः- ननु कस्माद्दारुणं स्वप्नं पश्यति तदाह-- मनोवहानामित्यादि । नरो दारुणे मारके काले समुपस्थितेऽतिबलैरतिशयवलवद्भिस्त्रिभिर्दोषैर्वातपित्तकफैर्मनोवहानां स्रोतसां पूर्णखात् दारुणान् मारकान् स्वप्नान् पश्यति ॥ ३० ॥
कपियुक्तेन यानेनेति शेषः । कश्चिदेव प्रमुच्यत इत्यरोगान् प्रति नैतत् स्वप्नानामरिष्टत्वम् । तेन अरोगेष्वेतेषां मरणव्यभिचारेण नारिष्टत्वं वक्ष्यति ॥ २७ - २९ ॥
चक्रपाणिः - यथैतत् स्वप्नदर्शनं भवति तदाह - मनोवहानामित्यादि । मनोवहानि स्त्रोतांसि पृथक्तानि तथापि मनसः केवलमेवेदं शरीरमयनभूतम् इत्यभिधानात् सर्व्वशरीरस्रोतांसि गृह्यन्ते, विशेषेण तु हृदयाश्रितत्वान्मनसस्तदाश्रिता दश धमन्यो मनोवहा अभिधीयन्ते । त्रिभिरिति