________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८६
चरक-संहिता। पूर्वरूपीयमिन्द्रियम् असत् तमः पश्यति यो यः शृणोत्यसतः स्वनान् । बहून् बहुविधान् जाग्रत् सोऽपस्मारेण वध्यते॥२१॥ मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम् । खन्ने हरति तं मृत्युरपस्मारपुरःसरः ॥ २२॥ स्तभ्यते प्रतिबुद्धस्य हनुमन्ये तथाक्षिणी। यस्य तं वहिरायामो गृहीत्वा हन्त्यसंशयम् ॥ २३ ॥ शष्कुलीर्वा यपूपान् वा स्वप्ने खादति यो नरः । स चेत् प्रच्छईयेत् ताहक प्रतिबुद्धो न जोवति ॥ २४ ॥
नृत्येत्, अम्भसि च मज्जति, स भृशमुन्मादं रोगं प्राप्य इतो जन्मक्षेत्रात् परलोकं याति ॥२०॥
गङ्गाधरः-असत् तम इत्यादि। यो जाग्रत् सन्नसत् तमो मिथ्याऽन्धकारं पश्यति, यो वा जाग्रत् सनसतो मिथ्या बहुविधान बहून् स्वनान शृणोति, सोऽपस्मारेण भाविना वध्यते हन्यते ॥२१॥
गङ्गाधरः-मत्तमित्यादि। प्रेतो मृतः पुरुषो यं नरं नृत्यन्तं मत्तं स्वम् आविध्याधःशिरसं कूता स्वप्ने हरति, स्वप्ने इति पश्यन्तं तम् अपस्मारेण भाविना मृत्युहरतीत्यर्थः ॥२२॥
गङ्गाधरः- स्तभ्येते इत्यादि। पूर्व निद्रया बाह्यशानहीनस्य पश्चात् प्रतिबुद्धस्य जागरितस्य यस्य हनुमन्ये तथाऽक्षिणी च स्तभ्येते, तं नरं वहिरायामो धनुःस्तम्भो भविष्यन् गृहीखा हन्ति ॥२३॥
गङ्गाधरः-शष्कुलीरित्यादि। यो नरः स्वप्ने शष्कुलीरपूपान् वा खादति, स चेत् प्रतिबुद्धो जागरितः सन् तादृक् शष्कुलीर्वापूपान् वा मच्छईयेत्, स वहिरायामेण भाविना न जीवति मरिष्यतीत्यथः॥२४॥
चक्रपाणिः-आविध्यति अधःशिरसं कृत्वा। तादगिति अपूपशष्कुलीरूपम् ॥ २१-२४ ॥
For Private and Personal Use Only