SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः इन्द्रियस्थानम् । २१८५ स्नेहं बहुविधं वने चण्डालैः सह यः पिबेत् । वध्यते स प्रमेहेण स्पृश्यतेऽन्ताय मानवः ॥ १६ ॥ ध्यानायासौ तथोद्वेगो मोहश्चास्थानसम्भवः । अरतिर्बलहानिश्च मृत्युरुन्मादयूकः ॥ १७ ॥ आहारवेषणं यस्य लुप्तचित्तमुदर्दितम् । विद्याद धीरो मुमूर्ष तमुन्मादेनातिपातिना ॥१८॥ क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम् । मूर्छायतृष्णाबहुलं हन्युन्मादः शरीरिणम् ॥ १६ ॥ नृत्येद् रक्षोगणैः सार्द्ध यः स्वप्नेऽम्भसि मज्जति। स प्राय भृशमुन्माद याति लोकमितः परम् ॥ २० ॥ गङ्गाधरः-स्नेहमित्यादि। यः स्वप्ने चण्डालैः सह बहुविधं स्नेहं घृतनवनीततैलादिकं पिवेत्, स मानवः प्रमेहेण वध्यतेऽनुवध्यतेऽन्ताय मरणाय स्पृश्यते च । तस्य प्रमेहो भविष्यति तेन प्रमेहेण स मरिष्यतीति भावः ॥१६॥ गङ्गाधरः-ध्यानेत्यादि। पूर्वरूपाधिकारात्। यस्योन्मादपूर्वरूपाणि ध्यानं चिन्ता, आयासः श्रमकरो भावः, उद्वेगः, अस्थानसम्भवो मोहः-यत्र मोहविषयता नास्ति तत्र मोहः, अरतिरनवस्थचित्तवं, बलहानिश्चैतानि यस्य, तस्योन्मादरोगो भूखा पश्चान्मृत्युरित्यर्थः ॥१७॥ गङ्गाधरः--आहारेत्यादि। यस्योन्मादपूर्वरूपेषु आहारद्वेषणं लुप्तचित्तखन मुदा हर्षेभावेण प्रवर्त्तमानेन अदितं व्यथितं तं पुरुपमतिपातिना भाविना उन्मादेन मुमूर्षु धीरो विद्यात् ॥१८॥ गङ्गाधरः-क्रोधनमित्यादि । उन्मादपूवरूपेषु क्रोधनं त्रासबहुलं सकृदेकवारमात्रं प्रहसिताननं मुर्छायतृष्णाबहुलं शरीरिणम् उन्मादो भूला हन्ति ॥१९ गङ्गाधरः-नृत्येदित्यादि। उन्मादपूर्वरूपेषु यः स्वप्ने रक्षोगणैः सह भवन्ति, एतञ्च लक्षणं भवति, भवति तदा प्रमेहेण मृत्युः। यदा प्रमेहपूर्वरूपाणि न भवन्ति, तदा येन केनापि व्याधिना मृत्युजयः। उदतिमिति उदईयुक्तम् । यद् वा उदहितं मृदवातादितम् ॥ ११-२०॥ २७ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy