________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः इन्द्रियस्थानम् ।
२१८७ एतानि पूर्वरूपाणि यः सम्यगवबुध्यते। स एषामनुबन्धञ्च फलञ्च ज्ञातुमर्हति ॥ २५ ॥ य इमांश्चापरान् स्वप्नान् दारुणानुपलक्षयेत् । आतुराणां विनाशाय क्लेशाय महतेऽपि वा ॥ २६ ॥ यस्योत्तमाङ्ग जायन्ते वंशगुल्मलतादयः। वयांसि च निलीयन्ते स्वप्ने मौण्डामियाञ्च यः॥ गृध्रोलूकश्वकाकादः स्वप्ने यः परिवार्य्यते। रक्षप्रतपिशाचस्त्री-चण्डालद्रविडान्धकैः ॥ वंशवेत्रलतापाश-तृणकण्टकसङ्कट। प्रमुह्यति च यः स्वप्ने यो गच्छन् प्रपतत्यपि ॥ गङ्गाधरः-पूर्वरूपारिष्टाधिकारस्याशिष समापयति-एतानीत्यादि। अनुबन्धम् एषामुक्तानां व्याधीनां पश्चादवश्यं सम्बन्धं तद्वाधीनामेषां वा पूर्वरूपाणां फलश्च मरणं ज्ञातुमर्हति ॥२५॥
गङ्गाधरः-अथ पूर्वरूपावस्थिकस्खमानुक्त्या रूपावस्थादिषु स्वमप्रकरणम् आरब्धुमाह-य इमानित्यादि। यस्य यस्य यक्षमज्वरादे रोगस्य पूर्वरूपतया यो यः स्वप्न उक्तस्तत्तव्याधिनातुरस्य स एष एप स्वप्नो विनाशाय उपलक्ष्यते इत्यर्थे इमानुक्तान् दारुणान् स्वमान् आतुराणां तत्तद्वयाधिभिः पीड़ितानां विनाशायोपलाते। अपरानपि दारुणान् स्वमान् वक्ष्यमाणान् आतुराणां वर्तमानातुर्यवतां विनाशाय महते क्लेशाय वापि उपलक्षते ॥२६॥ .
गङ्गाधरः-ननु के तेऽपरे स्वमा इत्यत आह—यस्योत्तमाङ्गे इत्यादि। यथायथमनियतसङ्केप्रयं स्वप्ने दर्शनं बोध्यम् । उत्तमाङ्गे मूर्द्धनि वंशाधन्यतमाः, मौण्डा मुण्डनम् इयात् प्राप्नुयात् । गृध्रादिभी रक्षःप्रेतादिभिश्च वंशादिसङ्कटे स्वप्ने यः परिवार्यते परिवारीक्रियते, यः प्रमुह्यति मोहं प्रामोति, यः स्वप्ने
चक्रपाणिः- एपामनुबन्धमिति एतत्पूर्वरूपोत्तरकालभाविनंव्याधिम्। फलम्चैषां मृत्युरूपम्। क्लेशाय महतेऽपि वेत्यत्रारोगिणां क्ल शाय महते इति बोध्यम्, रोगिणान्तु मरणायैव । यत उत्तरत्रोपसंहारे "इत्येते दारुणाः स्वप्नाः” इत्यादौ यथोक्तमेव विभागं करिष्यति ॥ २५।२६ ॥
चक्रपाणिः--वयांसीति पक्षिणः । गृध्रादिकाकादेवः परिवार्यत इति सम्बन्धः। संसजति
For Private and Personal Use Only