________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८२
चरक-संहिता। पूर्वरूपीयमिन्द्रियम अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । विशन्यनेन कल्पेन तस्यापि मरणं ध्रुवम् ॥ ४ ॥ पूर्वरूपैकदेशांस्तु वक्ष्या यन्यान् सुदारुणान् । ये रोगाननुबन्नन्ति मृत्यु रेव बुध्यते ॥ ५ ॥ बलञ्च हीयते यश्य प्रतिश्यायश्च वर्द्धते। तस्य नारीप्रसक्तस्य शोषोऽन्तायोपजायते ॥६॥ श्वभिरुष्ट्र खरैर्वापि याति यो दनिणां दिशम्। स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति +॥७॥ गङ्गाधरः-अन्यस्यापीत्यादि। अनेन कल्पेन साकल्येन पूर्वरूपाणि यं नरं विशन्ति इत्यन्वयः ॥४॥
गङ्गाधरः-इत्यभिन्नानि पूर्वरूपाण्युक्त्वा भिन्नान्याह-पूर्वरूपैकदेशांस्तु इत्यादि। अन्यान् कान् ये पूच्चापैकदंशा रोगान् अनुवन्ति अभिव्यक्तखदशायामपि संवन्ति न चान्यपूच्चे रूपवनिति यान्ति तान्। ननु तांश्च बहून् बहूनां व्याधीनामनुबन्धिनः पश्यामो न च म्रियते इत्यत आहमृत्युरित्यादि । यैः पूर्वरूपैकदेश रेव मृत्युबुध्यते शायते तान् पूव्वरूपैकदेशान् वक्ष्यामि ॥५॥
गङ्गाधरः-बलञ्चेत्यादि। शोषो राजयक्ष्मा। तस्य पूच्च रूपविशेषः प्रतिश्यायो यस्य क्रमेण वद्धते वलञ्च हीयते नारीपसक्तस्य सततं मैथुनं सेवमानस्य तस्यातः परं शोषः स्यात् । स च तस्यान्ताय नाशायोपपद्यते ॥६॥
गङ्गाधरः-पूर्वरूपावस्थायां स्वमतोऽप्यरिष्टमाह---याभिरित्यादि। यः
मात्रयेति अत्युल्वणत्वेन। ज्वरपुरःसर इति ज्वरान्तरभावी । एतेन कल्पेनेत्यनेन सर्वाणि चातिमात्रया चेति दर्शयति ॥ १-४॥
चक्रगणिः-रोगाननुबदन्तीति रोगेण पश्चाभाविना अवश्यं युज्यन्ते । मृत्युयैरनुबध्यते इति यै रोगैरनुबध्यते । एतेनैतत् फलति, ज्वरिणो ताधिभियतसम्बन्धा अवश्यं मारका भवन्तीत्यर्थः। "वभिरुष्ट्रः खरैः” इत्यादि शोपनिदानेऽप्युक्तम् । तेन दक्षिणदिशागमनं
* अनुबध्यते इति पाठान्तरम् । + स्वप्ने यक्ष्मा समाविश्य न जीवन्नवसृज्यते। एतत् पाठान्तरञ्च दृश्यते ।
For Private and Personal Use Only