________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ पूर्वरूपाण्यसाध्यानां विकाराणां पृथक पृथक। भिन्नाभिन्नानि वक्ष्यामि भिषजां ज्ञानवृद्धये ॥२॥ पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया।
यं विशन्ति विशत्येनं मृत्युवरपुरःसरः ॥३॥ गङ्गाधरः--अथेत्यादि । अथेन्द्रियानीकेन्द्रियादनन्तरमतः आतुरविषयारिष्टोद्देशानुक्रमसात् पूर्वरूपाणां पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः, इतिह माह भगवानात्रेयः॥१॥
गङ्गाधरः- तद् यथा--पूर्वरूपाणीत्यादि। असाध्यानां विकाराणां पृथक् पृथक् रोगाणामसाध्यखख्यापकानि पूर्वरूपाणि भिन्नाभिन्नानि विशेषसामान्यानि प्रतिरोग विशेषेण पूर्वरूपाणि सर्वरोगाणामेकविधया च वक्ष्यामि ॥२॥
गङ्गाधरः-सामान्य विधया प्रथमत आह-पूर्वरूपाणीत्यादि । एनं वरिणम् ॥३॥
चक्रपाणिः-इन्द्रियगतरिष्टमभिधाय सरवादीनामग्रे सूचितानामरिष्टमग्रे वक्तु युज्यते ; तत् तु अल्पवक्तव्यत्वात् तदुल्लङ्घय बहुवक्तव्यं पूर्वरूपरिष्टमभिधातु पूर्वरूपीयोऽभिधीयते । प्रथमाध्याये एव तु सत्त्वादीनामग्रेऽभिधानमिन्द्रियैः समं बुद्धिसाधनत्वादिप्रसङ्गागतं ज्ञेयम् । व्याधिस्तु यद्यपि बहुत्वेन वक्तव्यः कतमानिशरीरीयेऽग्रे सूचितश्च, तथापि पूर्वरूपपूर्वकत्वात् व्याधेः पूर्वं पूर्वरूपमिह। सूत्रे त्वग्रे व्याधिवचनेन पूर्वरूपात् व्याधेः पूर्वरूपबोध्यस्य प्राधान्यं दर्शयति । भिन्नाभिन्नानीति साधारणासाधारणानि । तत्र "पूर्वरूपाणि" इत्यादिना "तस्यापि मरणं ध्रुवम्" इत्यन्तेन सर्वव्याधिरिष्टं साधारणमुक्तम् । पूर्वरूपैकदेशांस्तु इत्यादिना तु प्रतिव्याधि भिन्नपूर्वरूपारिष्टमुच्यते। अन्ये तु भिन्नाभिन्नानीति उक्तानुक्तानीति ब्रुवते, तन्त्र ज्वरादिपूर्वरूपाण्युक्तानि । श्वभिरुष्ट्रः खरै रित्यादि तु पूर्वरूपमनुक्तम् । सर्वाणीति समस्तानि। अति
For Private and Personal Use Only