________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८०
चरक-संहिता। इन्द्रियानीकमिन्द्रियम्
तत्र श्लोकः। एतदिन्द्रियविज्ञानं यः पश्यति यथातथम् । मरणं जीवित चैव स भिषग ज्ञातुमर्हति ॥ २४ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने
इन्द्रियानीकमिन्द्रियं नाम चतुर्थोऽध्यायः॥४॥
गङ्गाधरः-अध्यायाथमुपसंहृत्य प्रशंसति--तत्रेत्यादि। इन्द्रियस्य विज्ञानं विज्ञानकरणं शास्त्रं यः पश्यति जानाति ॥२४॥
अध्यायं समापयति-- अग्नीत्यादि ॥ इति वैद्यश्रीगङ्गाधरकविरत्रविरचिते चरकजल्पकल्पतरौ पञ्चमस्कन्ध इन्द्रिय
स्थानजल्पे इन्द्रियानीकेन्द्रियजल्पाख्या चतुर्थी शाखा ॥४॥
बहुश इत्यनेन सकृदर्शनस्य नारिष्ट चम्। इन्द्रियविज्ञानम् इन्द्रियगतरिष्टज्ञानम् । जीवितज्ञानम्चेह रिष्टशून्येन्द्रियज्ञाने सति भवतीति ज्ञेयम् ॥ २१-२४॥ इति महामहोपाध्यायचरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने इन्द्रियान केन्द्रियं
नाम चतुर्थोऽध्यायः ॥ ४॥
For Private and Personal Use Only