________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः
इन्द्रियस्थानम् । २१७७ अशब्दस्य च यः श्रोता शब्दान् यश्च न बुध्यते। द्वागौ पश्यतः क्षिप्रं यमालयमसंशयम् ॥ १६ ॥ संवृत्याङ्ग लेभिः कौँ ज्वालाशब्दं य आतुरः। न शृणोति गतासुतं बुद्धिमान् परिवर्जयेत् ॥ १७ ॥ विपर्यायेण यो विद्याद गन्धानां साध्वसाधुताम् ।
न चैतान् सर्वशो विद्यात् तं विद्याद् विगतायुषम् ॥१८॥ द्वन्द्वान्युष्ण हिमादीनि कालावस्था दिशस्तथा। विपरीतेन यो गृह्णाति भावानन्यांश्च यो नरः ॥ ज्योतींषि यश्चापि ज्वलितानीव पश्यति । रात्रौ सूर्य ज्वलन्तं वा दिवा वा चन्द्रवजेसम्। अमेघोपप्लवे यश्च शक्रचापतडिदगुणान् । तड़िततोऽसितान् यो वा निर्मले गगन घनान्। विमानयानप्रासादयश्च सङ्घ लमम्बरम्। यश्चानिलं मूर्तिमन्तमन्तरीक्षश्च पश्यति। तं वदन्ति गतायुषम् । इति परेणान्वयः। इति चक्षुःपरीक्षा ॥१५॥
गङ्गाधरः-अथ श्रोत्रपरीक्षामाह-अशब्देत्यादि। अशब्दस्य शब्दतरस्य श्रवणेन्द्रियाग्राह्यस्य स्पर्शादेयः श्रोता, यो वा शब्दान् न बुधयते न शृणोति, एतौ द्वो क्षिप्रं यमालयं पश्यतः ॥१६॥
गङ्गाधरः-संकृत्येत्यादि। य आतुरः कर्णावगुलिभिः संकृत्य ज्वालाशब्दं ज्वालावद्ध्वनिं न शृणोति, गतासु गतप्राणं तं बुद्धिमान परिवज्जयेत् । सुश्रुते तु-शृणोति विविधान शब्दान् यो दिव्यानामभावतः । समुद्रपुरमेघाणामसम्पत्तौ च निस्वनान् । तान् स्वनान् नावगृह्णाति मन्यते चान्यशब्दवत् । ग्राम्यारण्यस्वनांश्चापि विपरीतान् शृणोत्यपि। द्विपच्छन्देषु रमते मुहृच्छब्देषु कुप्यति। न शृणोति च योऽकस्मात् तं ब्रुवन्ति गतायुषम्॥ इति । इति श्रवणाधिकारः ॥१७॥
गङ्गाधरः-अथ घ्राणपरीक्षा-विपव्ययेणेत्यादि। यो गन्धानां साधुखम् असाधुत्वं विपय्येयेण विद्यादसाधुत्वं वा साधुत्वं विद्यात् साधुत्वं वाप्य. साधुत्वं तौ द्वौ। यश्च एतान् साधून वाप्यसाधून् वा सर्वान् गन्धान सर्वशो न विद्यात् तं त्रिकं विगतायुषं विद्यात् । सुश्रुतेऽपि-सुगन्धिं वत्ति
चक्रपाणिः-अशब्दस्येत्यादिना---श्रोत्रारिष्टमाह । ज्वालाया शब्द इव शब्दो ज्वालाशब्दस्तम्। विपर्ययेणेत्यादिना-घ्राणारिष्टमुच्यते। न वा तान् सर्वशो विद्यादिति सर्वथैव गन्धान शुभान्
For Private and Personal Use Only