________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७६
चरक-संहिता। इन्द्रियानीकमिन्द्रियम् प्रभावतः प्रभाहीनान् निष्प्रभान ये प्रभावतः । नरा विलिङ्गान् पश्यन्ति भावान् प्राणान् जिहासवः ॥१३॥ व्याकृतीनि विवर्णानि विसङ्ख्योपगतानि च । विनिर्मितानि * पश्यन्ति रूपाण्यायुःक्षये नराः॥ १४ ॥ यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न बुध्यते।
तावप्युभौ यथा प्रतौ तथा ज्ञयौ विजानता ॥ १५ ॥ ऋच्छति। रात्रौ असचन्द्रं यस्यां रात्रौ चन्द्रो न वर्त्तते तस्यां रात्रौ चन्द्रं दृष्ट्वा मरणमृच्छति। अनग्नौ उत्थितं धूमं दृष्ट्वा मरणमृच्छति। शीते तु यन्नद्यादिजले धूमवत् पश्यति स न धूमः, परन्तु वाष्पः। रात्रौ अग्निं निष्पमं दृष्ट्वा मरणमृच्छति ॥१२॥
गङ्गाधरः-प्रभावत इत्यादि। प्राणान् प्राणादिकान् शारीरान जिहासवो हातुमिच्छवोर्थात् शीघ्र ये मरिष्यन्ति ते नराः प्रभावतो भावान् प्रभाहीनान् पश्यन्ति, निष्पभान् भावान् अप्रभावतो निष्पभान् न पश्यन्ति अर्थात् निष्पभान् प्रभावतः पश्यन्ति। एवंप्रकारेणान्यानपि भावान् विलिङ्गान् विगतसहजलिङ्गान् पश्यन्ति ॥१३॥ __गङ्गाधरः-व्याकृतीनीत्यादि। नरा आयुःक्षये सति रूपाणि मूर्तिविशेषान विनिर्मितानि विशिष्टं साधु निर्मितानि प्रतिमादीनि व्याकृतीनि विरुद्धाकृतीनि पश्यन्ति विवर्णानि वा पश्यन्ति, विसङ्ख्योपगतानि सङ्ख्यावैपरीत्ययुक्तानि वा पश्यन्ति ॥१४॥
गङ्गाधरः-यश्चेत्यादि। यश्चादृश्यान् वाय्वाकाशादीन् पश्यति, यश्च वा दृश्यान् मूर्तिमतो घटादीन् न बुधाते न पश्यति, तावुभौ यथा प्रेतो मृतौ यथा, तथा शे यो विजानता विशेन। सुश्रुते च-द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा। विपरीतेन गृह्णाति भावानन्यांश्च यो नरः॥ दिवा नैवेति दर्शयति । विलिङ्गानिति विगतसहजलिङ्गान्। तेन प्रभाव्यतिरिक्ताञ्जनादिलिङ्गविपर्ययो रिष्टं भवात । भावानिति प्राणान् । किंवा महापञ्चमूतानि शरीररूपाणि। व्याकृतीनीति विविधाकृतीनि। विवर्णानीति विरुद्धवर्णानि। विसंख्योपगतानीति विगतसंख्यायुक्तानि । विनिमित्तानीति व्याकृत्यादौ विगतनिमित्तानि प्याकृत्यादिकारकहेतुष्यतिरेकेण व्याकृत्यादियुक्तरूपदर्शनमरिष्टमित्यर्थः। रूपाणीप्ति रूपवन्ति द्रव्याणि ॥ १०-१५॥ * विनिमित्तानि इति चक्रः ।
For Private and Personal Use Only