________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४थ अध्यायः
इन्द्रियस्थानम् ।
मरीचीनसतोऽमेघान् मेघान् चाप्यसतोऽम्बरे । विदुतो वा विना मेघान् यः पश्यति स नश्यति ॥ ६॥ मृन्मयीमित्र यः पात्रों कृष्णाम्बर समावृताम् । आदित्यमीक्षते शुद्धं चन्द्र ं वा न स जीवति ॥ १० ॥ पव्वणि यदापयेत् सूर्याचन्द्रमसोर्ग्रहम् । व्याधितो व्याधितो वा तदन्तं तरय जोवितम् ॥ ११ ॥ नक्तं सूर्य्यमसच्चन्द्रमनग्नौ धूममुत्थितम् ।
अग्निं वा निष्प्रभं रात्रौ दृष्टा मरणमृच्छति ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२१७५
गङ्गाधरः -- मरीचीनित्यादि । य आतुरोऽमेघान् मेघहीनान् असतश्च मरीचीन मेघज्योतिषः अम्बरे आकाशे पश्यति, स नश्यति । यो वातुरोऽम्बरे विना मेघान् असतः असल्यान मेघान् पश्यति, स नश्यति । यो वाप्यातुरोऽम्बरे विना मेघान् विदुतः पश्यति, स नश्यतीति ॥ ९ ॥
गङ्गाधरः - मृन्मयीमिवेत्यादि । य आतुरः कृष्णाम्बरसमाहृतां कृष्णवर्णवस्त्रावृतां मृन्मयीं पात्रमिव शुद्धं मेघाद्यनावृतं निर्मलमादित्यं सूर्यमीक्षते पश्यति, स न जीवति । यो वातुरस्तथा मेघाघनावृतं निम्मलं चन्द्रं कृष्णाम्बरसमावृतां मृन्मयी पात्रमित्र पश्यति स न जीवति । पात्रीं स्थालीं शरावादिकाम् ।। १० ।।
गङ्गाधरः - अपर्व्वणीत्यादि । अव्याधितो व्याधितो वा यस्तपव्वणि अमावास्यां विना अन्यत्र तिथौ सूर्यग्रहणं राहुकेतुभ्यां यदा पश्येत्, किंवा पूर्णिमां विना अन्यत्र तिथौ चन्द्रस्य ग्रहणं यदा पश्येत्, तस्य तदन्तं तदग्रहणदर्शनपर्यन्तं जीवितम् । यदा ग्रहणदर्शनं न स्यात् तदा मरिष्यतीति भावः ॥ ११ ॥
गङ्गाधरः - नक्तमित्यादि । आतुरोऽनातुरो वा नक्तं रात्रौ सूर्य दृष्ट्वा मरणम् वैवर्ण्यविकृत्यादिकारकसविषान्नवर्णादिविरहेण स्वीय एव लोहितकपिले वर्णे व्यवस्थितम् । सप्तमीं निशां व्रजति । तेनाष्टमाहान्मरणम् ॥ ७--८॥
चक्रपाणिः – मरीचीनसत इत्यत्र प्रकरणात् 'मरीचि'शब्देन मेघदुपतिरुच्यते । मरीचीनां विशेषणम् 'असतः' इति । विदुद्यतो वा विना मेघादिति अब्भ्रान्तच्छटा एव सदा मेघसम्बन्धोपलभ्यमाना विद्यत इति, ता हि न विना मेवदर्शनमपि कदाचित् स्वस्थैरुपलभ्यन्ते ॥ ९ ॥
चक्रपाणि: - शुद्धमिति मेघाद्यनन्तरितम् । रात्रावित्यनेन दिवा वह्निनिष्प्रभत्वदर्शनमरिष्ट