________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः,
___ इतिह स्माह भगवानात्रेयः ॥ १ ॥ इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित् । आयुःप्रमाणं जिज्ञासुर्भिषक् तन्नो निबोधत ॥ अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः । अद्धा हि वितथं ज्ञानमिन्द्रियाणामतीन्द्रियम् ॥ वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसम्भवम् ।
आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत् ॥ २॥ गङ्गाधरः-अथोद्देशानुक्रमिकलात् पञ्चार्थपरीक्षानन्तरं पञ्चेन्द्रियपरीक्षार्थमिन्द्रियानीकमिन्द्रियमाह-अथात इत्यादि। इन्द्रियाणामनीकं समूहमायुषः प्रमाणावशेषशानार्थ परीक्षितुमधिकृत्य कृतमितीन्द्रियानीकम् ॥१॥
गङ्गाधरः-इन्द्रियाणीत्यादि। विशेषवित् इतीन्द्रियशक्तिविशेषवेत्ता भिषक् । तदिन्द्रियपरीक्षणम्। नन्विन्द्रियमप्रत्यक्ष कथं परीक्षेतेत्यत आहअनुमानादित्यादि। दर्शनादीनि चक्षुरादीनि। इन्द्रियेषु बहुविषयत्वेन प्राधान्यादादो चक्षुग्रहणम्। ननु कस्मादनुमानादित्यत आह-अद्धा हीत्यादि। हि यस्मादिन्द्रियाणामतीन्द्रियत्वेनेन्द्रियाणां ज्ञानमप्यतीन्द्रियम् इन्द्रियाण्यतिक्रान्तं, ततो न वितथमद्धानेन्द्रियप्रत्यक्षतो ज्ञानम् तस्मादनुमानेन चक्षुरादोनि तत्त्वतः परीक्षेत। परीक्षामाह-सामान्यसूत्रेण। स्वस्थेभ्यः इत्यादि। यस्य पुरुषस्य खिन्द्रियसम्भवं चक्षुरादिभिर्दर्शनादिजं ज्ञानं
चक्रपाणि:-उद्देशक्रमानुरोधादिन्द्रियगोचरारिष्टाभिधानार्थमिान्द्रयानीकमुच्यते। इन्द्रियाणामनीकं समूहमधिकृत्य कृतमिन्द्रियानीकम्। दर्शनं चक्षुः, दर्शनादीनि चक्षुरादीनि पन्चे. न्द्रियाणि। इन्द्रियाणां परीक्षा न प्रत्यक्षेणेत्याह-अद्धा हीत्यादि। अद्वेति भवितथम् । अतीन्द्रियत्वादनुमानेनैव परीक्षणमिति वाक्यार्थः। स्वस्थेभ्य इति प्रकृतिस्थेभ्य इन्द्रियेभ्यः । उत्पनमिति शेषः। इन्द्रियसंश्रयमिति वाहेन्द्रियजन्यम्। अनिमित्तेनेति विकृतज्ञानजनकवाह्यहेतुव्यतिरेकेण। इन्द्रियगतविकृतज्ञानजनकदोषनिरासस्तु 'स्वस्थेभ्यः' इति विशेषणेनैव
For Private and Personal Use Only