________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः इन्द्रियस्थानम् ।
२१७३ इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम् । तदेव तु पुनभू यो विस्तरेण निबोधत ॥ ३॥ घनीभूतमिवाकाशमाकाशमिव मेदिनीम्। विगीतमुभयन्त्येतत् पश्यन् मरणमृच्छति ॥ ४॥ यस्य दर्शनमायाति मारुतोऽम्बरगोचरः। अग्निना याति वा दीप्तस्तस्यायुःक्षयमादिशेत् ॥ ५॥
स्वस्थेभ्यः पुरुषेभ्यो विकृतमनिमित्तेन भिषगालक्षेत, तस्य तल्लक्षणं मरणस्य । इतीन्द्रियेष्वशुभोदयं लक्षणं सम्यगुक्तम् । तदेव भूयो बहुतमं विस्तरेण यूयं निबोधत ॥२॥३॥
गङ्गाधरः-घनीभूतमित्यादि। पुमानाकाशं घनीभूतं मूर्तिमन्तमिव पश्यन् मरणमृच्छति। मेदिनीं पृथिवीमाकाशमिव पश्यन् मरणमृच्छति । एतदुभयन्तु विगीतं विपर्ययेण गीतं निन्दितम् ॥४॥
गङ्गाधरः--यस्येति। अम्बरगोचर आकाशगत्या स्पर्शनेन्द्रियविषयो मूर्ती मारुतो यस्य सो दर्शनमायाति मत्तिमान् सन् दृष्टिगोचरो भवति। अथवामिना वा दीप्तः सन् दर्शनं आयाति तस्यायुःक्षयमादिशेत् । सुश्रुतेऽप्युक्तं-यश्चानिलं मूर्तिमन्तमन्तरीक्षश्च पश्यति। धूमनीहारवासोभिरावृतामिव मेदिनीम् । कृतः। अशुभोदयमिति मरणकारणम् । 'पुनः'शब्दः प्रकाशने। यथा-"दोषाः पुनस्त्रयः" । 'भूयः शब्दः पुनःपुनरर्थे । किंवा 'भूयः' शब्दो महदर्थः। तेन 'पुनर्भूयः'शब्दयोभिन्नार्थ स्वम् । धनीमूतमिति कठिनतां गतम्। तेन 'भूत'शब्दो गतार्थे, यथा-उपधानीमूतम् । तेन 'इव'शब्दश्वोपमाने भवति। धनीमन्ये पृथिवीं वदन्ति । तेन घनीभूतं पृथिवीरूपतां यातम्। आकाशमिव मेदिनीमिति शून्यरूपां मेदिनीम् । विगीतमिति विपरीतत्वेन ज्ञातम् । "उभयम्" इत्यनेन योगपदेवन पृथिव्याकाशविपरीतोपरम्भो रिष्टम् नैकैकत्वेन । अयञ्चारिष्टमहिमा यथा-एवंरूपमेव रिष्टं भवति, एवमप्युक्तारिष्टेषु तथा तथोत्पादः स्वमहिम्नैव ज्ञेयः। एतानि चारिष्टानि सामान्येनैवेन्द्रियारिष्टाभिधायकप्रकरणलब्धान्यपि प्रायोभावित्वेन शृङ्गग्राहिकतयाभिधीयन्ते ॥ १-४॥
चक्रपाणिः-दर्शनमिति चक्षुर्गोवरताम्। अम्बरगोचर इत्यनेन अधिष्ठातृदेवतारूपवातदर्शनं निषेधयति । एतेन एष वायुरित्याकारवानिति मारुतप्रत्यक्षज्ञानमरिष्टम् । नायाति दर्शनमिति
सम्बन्धः
॥५॥
For Private and Personal Use Only