SearchBrowseAboutContactDonate
Page Preview
Page 1010
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः । इन्द्रियस्थानम् । २१७१ ताम्रनील हारिद्रशुका वा स्युः परासुरिति विद्यात् । तस्य चेन्नखा वीतमांसशोणिताः पक्का बववर्णाः स्युः तं परासुरिति विद्यात् । अथास्याङ्गलीः लक्षयेत् । तस्य चेदङ्गुल्य आयम्यमाना न स्फुटेयुः तं परासुरिति विद्यात् ॥ ७ ॥ भवति चात्र । एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते । तुरे न स संमोहमायुर्ज्ञानस्य गच्छति ॥ ८ ॥ इत्यग्निवेशते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने परिमर्शनीयमिन्द्रियं नाम तृतीयोऽध्यायः ॥ ३ ॥ उदरपरीक्षा । सिराः सरणशीला नाड्यः । प्रकाशेरन् व्यक्ताः स्युः किंवा ताश्च श्यावादिवर्णाः स्युः । तस्य चेदित्यादिना नखपरीक्षा । वीतमांसशोणिता मांसशोणितरहिताः पकजाम्बववर्णाश्च स्युः । अथास्येत्यादिनाङ्गुलीपरीक्षा / आयम्यमाना आयामेन क्रोडशोऽन्युब्जीकरणेन न स्फुटेयुस्तदायं परासुः ॥ ७ गङ्गाधरः अत्र श्लोकेन दर्शयति- एतानित्यादि । स भिषगातुरे आयुर्ज्ञानस्य सम्मोहं न गच्छतीत्यथः ॥ ८ ॥ गङ्गाधरः --- अध्याय समापयति- अग्नीत्यादि । इति वैद्य श्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थान जल्पे पञ्चमस्कन्धे परिमर्शनीयेन्द्रियतृतीयाध्याय जल्पाख्या तृतीयशाखा ॥ ३ ॥ शिरावर्णा अप्युक्ताः । आयच्छेदिति स्फोटयेत् । नखाङ्गुलिगतारिष्ट परीक्षायान्तु स्पर्शोऽपि व्याप्रियतएवेति कृत्वा तदरिष्टसपीहोक्तम् । एतान् स्टश्यानिति बाहुल्यादुक्तम् । एवं स्पृशन् इत्येतदपि बाहुल्यादुक्तम् । 'अज्ञानस्यैव' पाठपक्षे पष्ठी सम्बन्धविवक्षायाम् ॥ ७१८ ॥ इति महामहोपाध्याय - चरक चतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने परिमर्शनीयेन्द्रियं नाम तृतीयोऽध्यायः ॥ ३ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy